________________
प्रबोधचन्द्रोदये सव्याख्ये जातोऽहं जनको ममैष जननी क्षेत्रं कलत्रं कुलं
पुत्रा मित्रमरातयो वसु बलं विद्यासुहृद्वान्धवाः । चित्तस्पन्दितकल्पनामनुभवन् विद्वानविद्यामयीं निद्रामेत्य विघूर्णितो बहुविधान् स्वप्नानिमान् पश्यति ॥
मतिः - (क) अज्जउत्त! एव्वं दीहदीहतरणिहाविद्दाविअप्पबोहे परमेस्सरे कहं पबोहुप्पत्ती भविस्सदि ।
राजा-- (सलज्जमधोमुखम्तिष्ठति ।)
मतिः-- (ख) कित्ति गुरुअरळज्जाभरणमिदसेहरो तूण्हींभूदोसि ।
राजा-प्रिये! सेयं प्रायेण योषितां भवति हृदयम् । तेन सापराधमिवात्मानं शङ्के ।
(क) आर्यपुत्र ! एवं दीर्धदीर्घतरनिद्राविद्रावितप्रबोधे परमेश्वरे कथं प्रबोधोत्पत्तिर्भविष्यति ।
(ख) किमिति गुरुतरलज्जाभरनमितशेखरः तूष्णीभूतोऽसि ! ततः किं कृतवानित्याकाङ्क्षायामाह --- ततोऽसावित्यादिना । नत्रा पौत्रेण ।
विघूर्णितः व्याकुलीमनः । स्वप्नप्रपञ्चवद् दृष्टादृष्टनष्टस्वरूपान् पदार्थान् पश्यतीत्यर्थः ॥ २९ ।।
____ एवं तीविद्यातत्कार्यैः परिवृतत्वात् कथं नु नाम बोधोदय इति पृच्छति मतिः – एवं दीर्घदीर्घतरनिद्राविद्रावितप्रबोधे परमेश्वरे कथं प्रबोधोत्पत्तिर्भविष्यतीति।
इयं तावदत्यन्तसूक्ष्मेक्षिकादक्षा । तदहमेनां किं वक्ष्यामीत्यात्मनैवालोचयन् शालीनतयापि स्थित इत्याह - सलज्जमिति ।
मतिः । किमिति गुरुतरलज्जाभरनमितशेखरस्तूष्णीभूतोऽसि ।
वादृश्यः खलु सन्त्येवोत्तमाः स्त्रियः । तथापि बाहुल्येन कलुषीकृताशया एव योषित इति मन्वान आह -सेय॑मिति ।