________________
प्रथमोऽङ्कः । वादेव विषयरसविमुखः । ततः स्वतनयमेव परमेश्वरपदे निवेशयामीति । तमेव मातुरभिप्रायमामाद्य नितान्ततत्प्रत्यासन्नतया तद्रूपतामिवापन्नेन मनसा नवद्वाराणि पुराणि रचयित्वा,
एकोऽपि बहुधा तेषु विच्छिद्येव निवेशितः । स्वचेष्टितमथो तस्मिन् निदधाति मणाविव ।। २८ ॥
मतिः-(विचिन्त्य) (क) जारिसी मादा पुत्तो वि तारिसो एव्व जादो।
राजा-- ततोऽमावहङ्कारेण चित्तस्य ज्येष्ठपुत्रेण नप्त्रा परिष्वक्तः । ततश्वासावीश्वरः--
(क) यादृशी माता पुत्रोऽपि तादृश एव जातः ।
दिति । असङ्गत्वादित्यर्थः । एवं मायाप्रवृत्तः कारणं दर्शितम् । इदानीं प्रयोजनं दर्शयति -- ततः स्वतनयमित्यादिना । परमेश्वरपदे निवेशयामीति । परमेश्वरमाच्छाद्य स्वतनयमेवात्मत्वेन ज्ञापयामीत्येवमनया निरूपितमित्यर्थः । भवत्वेवं दुराशा मायायाः । किमिति त पुत्रो मनस्तथा प्रवर्तत इति चेत् तत्राह – तमेवेत्यादिना : नितान्तप्रत्यासत्तिरतिशयन सान्निव्यम् । तादूप्यं नाम तप्तायःपिण्डवत् तदाकारभजनम् । पुराणि शरीराणि । आत्मचैतन्यावज्वलनबलेन ईश्वरमवधीहिमवेश्वर इत्येवंस्थितमनःस्पन्दितं जगदित्यर्थः ।
तेन पुनः किमकारीति तत्राह-एकोऽपीत्यादिना । एक एव सन् परमेश्वरो ब्रह्मादिस्तम्बपर्यन्तान्तःकरणानामनेकत्वाद् विच्छिद्यवेत्यर्थः । स्वचेष्टितं कर्तृत्वादिलक्षणं तस्मिन्नीश्व निदधात्यारोपयति । यथा खलु स्वच्छतरस्फटिकमणिरविक्रियोऽपि सन्निहितजवाद्याकारं भजते, एवमीश्वरोऽपि बुद्धिगतकर्तृत्वादिकं भजत एवेत्यर्थः ।। २८ ॥
मतिः । यादृशी माता पुत्रोऽपि तादृश एव जातः । तादृशत्वं नाम मातृवदघटमानविधानपटीयस्त्वम् ।
मनःशब्दवाच्यान्तःकरणोपाध्यनुसारेणायं परमेश्वरो नरीनत्युिक्तं, १. 'तं न स्पन्दितं जगतीत्य' ख. पाठः.