________________
प्रबोधचन्द्रोदये सव्याख्ये एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरन्ति ॥ २७ ॥ अस्ति चापरमपि कारणम् । मतिः --- (क) अज्जउत्त ! किं णाम तं काळणं ।
राजा-एवमनया दुराचारया चिन्तितं -यदहं तावद् गतयौवना वर्षीयसीजाता। अयं च पुराणपुरुषः स्वभा
__ (क) आर्यपुत्र ! किं नाम तत् कारणम् । दर्शयति -- सम्मोह यन्तीत्यादिना । पीनपीवररमणीयस्तनकलशादिप्रदर्शनादिना सम्मोहयन्ति सकलान्यपीन्द्रियाणि सहसैव समाकृष्यात्मवशं नीत्वा मतिविभ्रंशं कुर्वन्तीत्यर्थः । मदयन्ति सल्लापानुकूल्यादिना हर्षयन्ति । विडम्बयन्ति उपहासकरणपाणिग्रहणादिना क्रीडयन्ति । निर्भर्त्सयन्ति प्रेमकलहप्रातिकूल्याचरणादिना अधिक्षिपन्ति । रमयन्ति आनुकूल्यादिना अभिमतदानेनानन्दयन्ति । विषादयन्ति गोत्रान्तरसम्बन्धसम्भावनाशङ्कया कदाचिदननुकूलतया कातरयनि । सदयमिति क्रियाविशेषणम् । यथा स्नेहो भवति तथा नराणां हृदयं सानुरागं प्रविश्यत्यर्थः । किं नामेति कुत्सायाम् । कुम्भीपाकादिनिश्शेषनरकनिकरष्वप्येनं प्रेरयितुं समर्था इत्यर्थः । उक्तञ्च
'सृष्टास्तथा विधात्रा किं कार्यमुद्दिश्य योषितः ।
आ ज्ञातं नरकावासानशून्यं कर्तुमायतान् ।।" इति ॥ २७ ॥
न केवलं स्वभावादेव माया प्रवर्तत इत्याह -- अस्तीत्यादिना । मतिः । आर्यपुत्र ! किं नाम तत् कारणम् ।।
दुराचारया दुष्टाचरणया विपरीतप्रत्ययपरयेत्यर्थः। किं तचिन्तितमिति तदाह-- यदहं तावदिति । गतयौवना निवृत्ततारुण्या अतिशयेनेत्यर्थः । वर्षीयसी अतिशयेन वृद्धा । ननु पुरुषस्यापि तथात्वात् समानसख्यं स्यादित्याशङ्कयाह - अयं चेति । पुरापि नव एवेति पुराणः । चकारादधुनापि नूतनः । पूर्णत्वात् पुरुषः । किन्तु विशेषोऽस्तीत्याह- स्वभावा
१. 'दिना', २. 'प्रपातयि' ख. पाठः. ३. 'टाः कष्टा वि' क. ग घ. पाठ:.