________________
३५
प्रथमोऽङ्कः । त एते पुण्यकारिणः वयं तु तन्मुक्तये प्रवृत्ताः पापकारिण इत्यहो जितं दुरात्मभिः।
मतिः-(क) अजउत्त! जदो सो सहआणन्दसुन्दरसहावो णिच्चप्पआसप्फुरन्तसअळत्तिहुअणप्पआरो परमेस्सरो सुणीअदि, ता कहं एदेहिं दुविअढहिं बंधिअ महामोहसाअरे णिक्खित्तो ।
राजा-प्रिये! सततधृतिरप्युच्चैः शान्तोऽप्यवाप्तमहोदयो
ऽप्यधिगतनयोऽप्यन्तःस्वच्छोऽप्युदीरितधीरपि । त्यजति सहजं धैर्य स्त्रीभिः प्रतारितमानसः
स्वमपि यदयं मायासङ्गात् पुमानिह विस्मृतः ॥२५॥
(क) आर्यपुत्र ! यतोऽसौ सहजानन्दमुन्दरम्वभावो नित्यप्रकाशस्फुरत्सकलत्रिभुवनप्रचार. परमश्वरः श्रूयते, तस्मात् कथमतदुर्विदग्धर्वन्धित्वा महामोहसागरे निक्षिप्तः ।
जितमिति । विपरीतमुपस्थितमित्यर्थः ।
तत्र विरोधं इति मन्वाना पृच्छति मतिः -- आर्यपुत्र! यतोऽसो सहजानन्दसुन्दरस्वभावा नित्यप्रकाशस्फुरत्सकलत्रिभुवनप्रचारः परमेश्वरः श्रूयते, तस्मात् कथमेतैर्दुर्विदग्धवन्वित्वा महामोहसागर निक्षिप्तः ।।
सततधृतिरिति । सन्ततधययुक्तो भायांकशग्रहणादिष्वपि युधिष्ठिरादिसमोऽयवा उर्वश्यादिविप्रलोभ्यमानपुरन्दरपुरगतपुरुहूतसुतोपमः । उच्चैः शान्तोऽपि गाङ्गेयादितुल्यः । अवाप्तमहोदयाऽपि प्राप्तसम्यग्ज्ञानो याज्ञवल्क्यादिसमः । अथवा महोदय ऐश्वर्य, प्राप्तवयः कातवीर्यादितुल्यः । अथवा प्राप्तमहोदयो विशेषज्ञानवान् विदुरादिसमः । अधिगतनयो बृह. स्पतिसमः । अन्तःस्वच्छो बलभद्रादितुल्यः । उदीरितधीः हिरण्यगर्भादि.
१. 'धमिव म' क. ख. पाठः.