________________
प्रबोधचन्द्रोदये सव्याख्ये
(क) अज्जउत्त ! णं अन्धकारळेहाए सहस्सर - रिसणो तिरक्कारो, जं माआए तह पप्फुरन्तमहप्पआससाअरस देव व अहिवो ।
३६
मतिः :
राजा प्रिये ! अविचारितसिद्धेयं वेशविलासिनीव माया असतोऽपि भावानुपदर्शयन्ती पुरुषं वञ्चयति ।
पश्य
-
w
―
स्फटिकमणिवद् भास्वान् देवः प्रगाढमनार्यया विकृतिमनया नीतः कामप्यसङ्गतविक्रियः ।
(क) आर्यपुत्र ! नन्वन्धकारलेखया सहस्ररइमेस्तिरस्कारो, यन्मायया तथा प्रस्फुरन्महाप्रकाशसागरस्य देवस्याप्यभिभवः ।
वदुत्कटविज्ञानवानपि । सहजं धैर्य निसर्गसिद्धं खलु धैर्यम् । विक्रिया त्वौपकिति भावः । प्रतारितं वञ्चितं मानसं मनो यस्य स तथा । सन्ततधैर्यादिगुणयुक्तोऽप्यबलाविलासविलोकन पलात् तूलायत इति यथायं दृष्टान्तः, एवमेवायं परमेश्वरोऽपीत्याह - स्वमपि यदयमिति । असङ्गोदासीन - चिदानन्दस्वरूपोऽपि परमेश्वरो मायायोषित्सङ्गादेव विस्मृतनिजरूप इत्यर्थः ॥ २५ ॥
नन्वेवमसङ्गोदासीनस्वभावता कथमस्येति मन्वाना पृच्छति मतिःआयिपुत्र ! नन्वन्धकारलेखया सहस्ररश्मस्तिरस्कारो, यन्मायया तथा प्रस्फुरन्महाप्रकाशसागरस्य देवस्याप्यभिभवः इति ।
अघटमानविधानपटीयस्त्वान्मायाया न कोऽपि विरोध इत्यभिप्रेत्याह- अविचारितसिद्धेति । वेशविलासे नीवेति । यथा खलु लोके काचन गणिका स्वयमविद्यमानानपि प्रणयपेशलादीन् मृदुलभावेन बहिः प्रकाश्य पुरुषं भ्रमयत्येवमियमपि माया परमेश्वरमात्मवशं नयतीत्यर्थः ।
ननु तहिं 'संसर्गजा दोषगुणा भवन्ती'ति न्यायात् मायासङ्गदोषदूषितः स्यादयमपीत्याशङ्कयाह -- स्फटिक मणिवदित्यादिना । १. 'षदुत्सङ्गसङ्गा' ख. पाट:. २. 'घटनाप' ग. पाठ:.