________________
प्रबोधचन्द्रोदये सव्याख्ये
(ततः प्रविशति राजा विवेको मतिश्च ।) राजा-(विचिन्त्य) प्रिये! श्रुतं त्वयास्य दुर्विनीतस्य कामवटोर्मदविस्फूर्जितं वचः, यदस्मानेव पापकारिण इत्याक्षिपति।
मतिः --- क) अज्जउत्त ! किं अप्पणो दोसं ळोओ विआणादि। राजा - पश्य, असावहङ्कारपरैर्दुगत्मभि
निबध्य तैः पाशशतैर्मदादिभिः । चिरं चिदानन्दमयो निरञ्जनो
जगत्पतिर्दीनदशामनीयत ॥ २४ ॥ (क) आर्यपुत्र ! किमात्मनो दोषं लोको विजानाति ।
"वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥" इति वचनात् प्राकृतसंस्कृतवाक्संमिश्रितपात्रद्वयपरिग्रहण वृत्तवर्तिष्यमाण कथासङ्ग्रहो विष्कम्भक इति ।।
मदविस्फूर्जितं दृप्तप्रलपितम् ।
सूक्ष्मार्थविवेचनक्षमा बुद्धिवृत्तिमतिः । आर्यपुत्र ! किमात्मनो दोषं लोको विजानाति ।
सम्प्रति मया सह सम्यगज्ञानसमुत्सार्यसंसारस्वरूपमात्मन्यविद्यापरिकल्पितं निरूपयति --- असावित्यादिना । अहङ्कारः परः प्रधानो येषां तैर्दुरात्मभिर्दुराशयैर्मदादिभिः । आदिशब्देन मानमात्सर्यादयो गृह्यन्ते । पाशशतैर्मलमायाकर्मलक्षणैर्नियम्य दीनदशां प्रापितो जगत्पतिरित्यन्वयः । चिरं निबध्येति । संसारस्थानादित्वात् तन्निबन्धनबन्धस्याप्यनादित्वमित्यर्थः । ननु तर्हि दुःखित्वमवास्य स्वरूपमित्याशङ्कयाह -- चिदानन्दमय इति । निरञ्जना निलेपः ॥ २४ ॥
१. 'मात्स', २. 'र्मायाल' ख. पाठः.