________________
प्रथमोऽङ्कः । कामः- (समन्तादवलोक्य) प्रिये! अयमस्माकं कुलं ज्यायान् मत्या देव्या सह विवेक इत एवाभिवर्तते । य एषः
रागादिभिः स्वरसचारिभिरात्तकान्ति
निर्भय॑मान इव मानधनः कृशाङ्गः । मत्या नितान्तकलुषीकृतथा शशाङ्कः
कान्त्येव सान्द्रतुहिनान्तरितो विभाति ॥ २३ ॥ तन्न युक्तमिहास्माकमवस्थानम् ।
(इति निष्क्रान्तौ ।) विष्कम्भकः ।।
समन्तादवलोक्येति । अयमर्थः - सर्वतो दिक्षु वादिषु निरूप्यमाणेषु सर्वानर्थनिदानतैवास्माकमिह परिशिष्यते इत्यात्मगतमेवालोच्येति । अविप्रतिपन्नतया सकलसज्जनैः सम्भाव्यमानत्वात् ज्यायान् ज्येष्ठ इत्यर्थः । य एष विभातीत्यन्वयः । य इति पूर्वोक्तः । एष इति प्रत्यक्षः । कथंभूतः । कृशाङ्गः । क इव । निर्भय॑मान इव मानधनः । यथा खलु लोके कश्चिदभिमानी बहुभिर्भय॑मानो निष्प्रभो भवत्येवमयमपि रागादिभिः । आत्तकान्तिः स्वीकृतप्रभः । ननु महाप्रभावः खलु विवेकः तस्य कथमविवेकनिमित्तरागादिभिः परिभव इति चेत् तत्राह -- स्वरसचारिभिरिति । शास्त्रसंस्कारसधीचीनाशयानामपि विषय सानेकर्षाद् दयादिकर्म पुरस्कृत्य इयमनाथा दुर्बला कृशाङ्गी मामेव शरणं गता कथं मद् विना जीवेत्, सर्वथा इयं मया परिरक्षणीयत्येवमादिप्रकारेण शनकै रागादयः प्रगल्भन्त इति भावः । नितान्तकलुषीकृतयति अविचारितसिद्धभेदव्यवहारपरिभ्रमणपरिश्रान्त्या नितान्तमत्यर्थमापद्तया मत्या सहेत्यर्थः । सान्द्रतुहिनं बहलप्रालेयं, तेन तिरोहितः ॥ २३ ॥
यथा खलु विरोधित्वाद् घुमणिद्युतिसन्दोहसाहचः शतमसा न घटते, एवं विवेकन सहास्माकमिहावस्थानमनुपपन्नमित्यभिप्रायेण तिरोहितावित्याह-तन्न युक्तमिति ! विवेकोदयसमकालमेव मदनादिमन्दीभाव इति भावः ॥