________________
प्रबोधचन्द्रोदये सव्याख्ये
आः पाप ! दुरात्मन्! कथमस्मानेव पापकारिण इत्या
रे
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ २२॥ इति पौराणिक गाथां पुराणविद उदाहरन्ति । अनेन चास्माकं जनकेनाहङ्कारानुवर्तिना जगत्पतिः पितैव तावद् बद्धः । महामोहादिभिश्च स एव बन्धः सुदृढतां नीतः ।
३२
क्षिपसि । ननु
अथवा निःश्रेयसे प्रवृत्तानां प्रतिबन्धप्राबल्यात् तत्परिहारे यत्नबाहुल्येन भाव्यमित्यभिप्रायेणाधुना
" नहि कल्याणकृत् कश्चिद् दुर्गतिं तात ! गच्छति । " इति वचनात् केनचित् कर्मविपाकेन कस्यापि सुकृतिनः चित्तापवरक एव विवेको भवतीत्याह नेपथ्य इति । अस्मानेवेति । साधव एव सन्तः साम्प्रतमारोपिता साधुत्व भूरिभाराः । अहो विपरीतमुपस्थितमित्येवका रार्थः । ननु शास्त्रार्थज्ञम्मन्यैरपि पितृवधादिकं क्रियत एव युष्मदीयैरपि इत्याशङ्कचाह - ननु रे इत्यादिना । अवलिप्तस्य दोषयुक्तस्य । उत्पथं प्रतिपन्नस्य उल्लङ्घितशास्त्रमर्यादस्य ।। २२ ।।
-
नन्वेवं तर्हि सकलपुरुषार्थ साधनमनोनिरोधनप्रयासो काण्ड ताण्डवित एवेति चेत् तत्राह । अथवा उल्लङ्घितशास्त्रमर्यादानामनुशासनं शास्त्रीयमेवेत्युक्तम् । हन्त तर्हि मनसः कोऽपराध इति चेत् तत्राह – अनेनेति । अहङ्कारानुवर्तिना अहङ्काराधीनेन मनसा सकलजगत्कारणं स प्रत्यगात्मा नित्यशुद्धबुद्धमुक्तपरमानन्दस्वभावः परमेश्वरोऽविचारितरमणीय कर्तृत्वभो क्तृत्वादिलक्षणरज्जुखण्डैर जितात्मा दुरुच्छेद्यैरात्मसात्सम्पादनेन निबद्ध इत्यर्थः । नन्वेवं तर्हि मनोनिरोध एव क्रियतां किमिति तत्सन्तानोच्छेदेनेति चेत् तत्राह - महामोहादिभिरिति । दृढत्वं नामात्यन्तानात्मत्वेन सम्प्रतिपन्नशरीरकलत्रपुत्रमित्रमात्रादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेत्यभेदाभिमानप्रविजृम्भणपरिभ्रमणमिति ।
"
।
१. 'कार्य भवति शासनम् ।' इति मूलकोशपाठः.
-