________________
प्रथमोऽङ्कः । रतिः- (क) कहं पुण अप्पणो विणासकारिणीए विजाए उप्पत्ती तेहिं दुव्विणीदेहि सिळाहिज्जइ ।
कामः-प्रिये! कुलक्षयप्रवृत्तानां पापकारिणां कुतः स्वपरप्रत्यवायगणना । पश्य
सहजमलिनवक्रभावभाजां
भवति भवः प्रभवात्मनाशहेतुः । जलधरपदवीमवाप्य धूमो ज्वलनविनाशमनुप्रयाति नाशम् ॥ २१ ॥
(नेपथ्ये) (क) कथं पुनरात्मनो विनाशकारिण्या विद्याया उत्पत्तिस्तैर्दुविनीतैः श्लाघ्यते ।
ननु तथापि सश्लाघ स्वोच्छेदाय यत्नोऽनुपपन्न एवेत्यभिप्रायेण पृच्छति रतिः । कथं पुनरात्मनो विनाशकारिण्या विद्याया उत्पत्तिः तैर्दुर्विनीतैः श्लाघ्यते ।
(कामः । प्रिये?) निसर्गकुटिलात्मनां मानवादीनामिव सुतसम्पादनप्रयासोऽविचारितरमणीय इत्येतमर्थं दृष्टान्तेन दर्शयन्नाह-पश्यत्यादिना । वक्रभावः कौटिल्यम् । भव उत्पत्तिः । प्रभवत्यस्मादिति प्रभवः कारणम् । आत्मा स्वयम् । प्रभवात्मनाशहेतुरिति जनकस्य स्वस्य च नाशकारणमित्यर्थः । जलधरपदवी मेघमार्गः । यथा खलु बहलोलत्वादिविशिष्टे धूमो मेघभूयं प्राप्य वर्षणसेचनादिना बलवदनिलबलेनालं जाज्वल्यमानमपि ज्वलनं विनाशयति स्वयमपि दुरात्मा नश्यति, तथेह विवेकादयोऽस्मत्प्रद्वेषकारिण इत्यर्थः ।। २१ ॥ ___एवंतावदशेषानर्थहेतोरपुरुषार्थसारसङ्ग्रहरूपस्यानङ्गवटोरात्मनो हस्तिमात्रमपि दोषमविगणय्य परदोपमेव पश्यतो दुरात्मनः पृष्ठीकृतशास्त्रार्थस्य सभायां सतामसाहङ्कारसमुद्वेलसञ्जल्पितं समाकर्ण्य तदसहमानोऽशेपपुरुषार्थपुरमूलस्तन्मी विवेकः प्रवृत्त इत्याह - नेपथ्य इत्यादिना ।
१. 'घनतरतरुघर्षजो हि वह्निविपिनवि' इति मृलकाशपाठः. २. 'विलोक्य' क. ख. पाठ:. ३. 'प' ख. पाठः.