________________
प्रबोधचन्द्रोदये सव्याख्ये
(प्रकाशम् । दृढं परिष्वज्य) प्रिये! न भेतव्यं न भेतव्यम् । अस्मासु जीवत्सु कुतो विद्योत्पत्तिः
रतिः- (क) अज्जउत्त! किं ताए रक्खसीए उप्पत्तीअह्माणं पडिवक्खाणं सम्मदा ।
कामः-बाढम् । सा खलु विवेकेनोपनिषद्देव्यां प्रबोधचन्द्रेण भ्रात्रा समं जनयितव्या । तत्र च सर्व एवैते शमदमादयः प्रतिपन्नोद्योगाः ।
(क) आर्यपुत्र ! किं तस्या राक्षस्या उत्पत्तिरस्माकं प्रतिपक्षाणां सम्मता।
तत्परित्राणोपायान्तरमपश्यन्नुपगृहनेनैवश्विास्य प्रगल्भं प्रभाषत इत्याह -- न भेतन्यमित्यादिना । अस्मासु जीवत्स्विति । अयं भावः- अस्मद्गन्धमानं चेत् तर्हि विद्याया वार्तापि न सम्भाव्यते, त्रिभु वनमपि व्याकुलीकृत्य जीवत्सु न कुतोऽपि विद्योत्पत्तिः सम्भवति इति ।
नन्वात्मम्भरयः खलु सर्वे, अतः कथमेतद् व्यवसितमेतैः । नखलु स्वपराघाताय कन्यामुद्वाहयन्ति । तस्माद् विरुद्धमिव भातीत्यभिप्रायेण पृच्छति रतिः । आर्यपुत्र ! किं तस्या राक्षस्याः उत्पत्तिरस्माकं प्रतिपक्षाणां सम्मता।
बाढं सम्मता । कथमिति तत्राह -सा खल्वित्यादिना । अयमर्थः-वेदान्तमहावाक्यश्रवणजनिता सहविषया निर्विचिकित्सा परोक्षाकाग्ण जायमाना बुद्धिवृत्तिर्विद्येति निगद्यते । तत्र च वृत्तावपरोक्षतयावभासमानं निवृत्ताविद्यं चैतन्यं प्रबोधः । स एव परमानन्दस्वरूपतयाह्लादकत्वाचन्द्रवचन्द्रः । भ्रातृत्वं च समानसामग्रीकतया निरन्तरोत्पन्नत्वात् तेन सहेति ।
१. 'व प्राश्वास्य', २. "तिसम्भव ई' क. ख. घ. पाठः,