________________
प्रथमोऽङ्कः । पुंसः सङ्गसमुज्झितस्य गृहिणी मायेति तेनाप्यसा___ वस्पृष्टापि मनः प्रसूय तनयं लोकानसूत क्रमात् । तस्मादेव जनिष्यते पुनरसौ विद्येति कन्या यया
तातस्ते च सहोदराश्च जननी सर्वं च भक्ष्यं कुलम् ॥१९॥
रतिः - (क) (सत्रासोत्कम्पम् ) अज्जउत्त! परित्ताआहि परित्ताआहि । (इति भतारमालिङ्गति ।)
कामः - (स्पर्शसुखमभिनीय स्वगतम् ) स्फुरद्रोमोद्भेदस्तरलतरताराकुलदृशो
भयोत्कम्पोत्तुङ्गस्तनयुगभरासङ्गसुभगः । अधीराक्ष्या गुञ्जन्मणिवलयदोर्वल्लिरचितः परीरम्भो मोदं जनयति च संमोहयति च ॥२०॥
(क) आर्यपुत्र ! परित्रायस्व परित्रायस्व ।
तामेवार्थतो दर्शयति – पुंस इत्यादिना । अयमर्थः - असङ्गोदासीनेन परमपुरुषेणाविचारितरमणीयां माया ताइक्सम्बन्धमापाद्यात्मतनयं मनो नामासूयत । तन्मनस्तातोऽस्माकमतिचञ्चलतया कदाचिद् विवेका. दिभिः परिवृतः स्वयं जडात्मा केनचित् कर्मविपाकेन विवेकवशादुपनिषद्देव्यां विद्यां नाम कन्यां जनयिष्यति । सा तु कठोरा स्वोदयमात्रेणात्म. व्यतिरिक्तमखिलं सनिदानमेव दहन्ती दाह्याभावादिव दवामिः स्वयमपि शंशमातीति ॥ १९ ॥
रतिः । आर्यपुत्र ! परित्रा(हि ? यस्व) परित्रा(हि ? यस्व)।
स्वगतम् स्तोकोच्चारणम् । परीरम्भः स्त्रीणां स्वयंग्रहाश्लेषः । मोदो हर्षः । तदुद्रेकनिमित्तं चापल्य मोहः ।। २० ॥
१. 'याविद्यात्र ता' ख. घ. पाठः. २. तिख. पाठः. ३. 'ति ॥' स. प. पाठः,