________________
जग।
प्रबोधचन्द्रोदये सव्याख्ये कामः-प्रिये! न भेतव्यं न भेतव्यम् । हताशानां मनोरथमात्रमेवैतत् । अस्ति किलैषा किंवदन्ती-- अस्माकं कुले कालरात्रिकल्पा विद्या नाम राक्षसी समुत्पत्स्यत इति । - रतिः- क) (सभयम् ) हडी, कधं उण अह्माणं कुळे रक्खसि त्ति वेवदि मे हिअअम् ।
कामः -प्रिये ! न भेतव्यं न भेतव्यम्। किंवदन्तीमात्रमेतत् ।
रतिः- (द: अह ताए रक्खसीए किं कादव्वम् । कामः-प्रिय ! अस्ति किलैषा प्राजापत्या सरस्वती--
क) हा धिक् , कथं पुनरस्माकं कुले राक्षसीति वेपते मे हृदयम् । (ग्व) अथ तया राक्षस्या किं कर्तव्यम् ।
न तत् कार्यक्षम भवतीत्याह-प्रिये इति । हताशानां दैवसामग्रीरहितानां मनो थमात्रमेवैतत् न सुसम्पादमित्यर्थः । ननु नास्त्येव तर्हि कारणम् । अस्त्येव , किन्तु गण्यं न भवतीत्याह – अस्ति किलेति । किंवदन्ती निमूलजनप्रवादः । यथा खलु कल्पान्तकालरुद्रप्राणकान्ता कालरात्रिनामधेया शक्तिरविलसंहर्त्यपि प्राणिकृतपुण्यापुण्यतत्संस्कारादिकं वयित्वैव संहरति । विद्या पुनरनेकजन्मकृतसुकृतोद्रेकवशाद् गुरुदेवता. प्रसादलब्धस्वादयमात्रणाहकारादिप्रमुखं कृत्स्नमेव प्रपञ्चं निर्दयमेव दैन्दहीति । अत ईपदसमाप्त्या कालरात्रिकल्पेत्यर्थः ।
रतिः। हा धिक , कथं पुनरस्माकं कुले राक्षसीति वेपते मे हृदयम् ।
न भयाय कल्पत इत्याह - किंवदन्तीमात्रमिति । रतिः । अथ तया राक्षस्या किं कर्तव्यम् ।
कर्तव्यविशेषं दर्शयन्नाह – अस्तीति । प्रजापतेरियं प्राजापत्या हैरण्यगर्भश्रुतिलक्षणा भारती ।।
१. 'क्तयाखि ग. पाट:. २. 'कृ' क. पाठ:. ३. 'दहीत' ख. पाठः,