________________
प्रथमोऽङ्कः । रतिः-(क) सान्तं पावं सान्तं पावम् । अज्जउत्त! किं एदं पावं विदेसमत्तेण तेहिं आरद्धम् , अहवा उवाओ वि को वि एत्थ मन्तिदो।
कामः--प्रिये! अस्त्यत्र किञ्चिन्निगूढं बीजम् । रतिः - (ख) अज्जउत्त! ता किं ण उग्घाडीअदि।
कामः - प्रिये! भवती स्त्रीस्वभावाद् भीरुरिति न दारुणकर्म पापीयसामुदाहियते ।
रतिः - (ग) (सभयम् ) अज्जउत्त! केरिसं तम् ।
(क) शान्तं पापं शान्तं पापम् । आर्यपुत्र ! किमेतत् पापं विद्वेषमात्रेण तैरारब्धम् , अथवा उपायोऽपि कोऽप्यत्र मन्त्रितः ।
(ख) आर्यपुत्र ! तत् किं नोद्घाट्यते ।
(ग) आर्यपुत्र! कीदृशं तत् ।। सामि सामि संविभज्य स्वे स्वे विषये स्वैरं विहरतां, किमिति विग्रहेणेति चेत् तत्राह- तच्चास्माभिरित्यादिना । अस्मत्पिता तावत् प्रवृत्त्यामेव प्रकृत्या प्रणयपरवशः । तेन तया प्रेरितोऽम्मानेव लाल यति । तेषां तु प्रत्यमात्राग्रह एव, न लोकवृत्तान्तविटता । अतस्तेष्वनास्थेति भावः ।।
रतिः । शान्तं पापं शान्तं पापम् । आर्यपुत्र ! किमेतत् पापं विद्वेषमात्रेण तैरारब्धम् , अथवा उपायोऽपि कोऽप्यत्र मन्त्रितः । पितर मस्मांश्चोन्मूलयितुमुद्यता इत्यतिकठोरतरकर्मकरणाग्रहश्रवणजातसन्त्रासा साटोपं शान्तं पापं शान्तं पापमित्युक्तवतीत्यर्थः ।
निगूढं प्रच्छन्नम् । बीजं कारणम् । रतिः । आर्यपुत्र ! तत् किं नोद्घाट्यते ।
स्त्रीणां नैसर्गिकी खल्वधीरतेति तां सम्भावयन्नाह -भवतीति । भीसर्मयशीला ।
रतिः। आर्यपुत्र ! कीदृशं तत् । १. 'अतस्तया प्रेषितो', २. 'पमपि ।' क. पाठ:.