________________
प्रबोधचन्द्रोदये सव्याख्ये तस्य च प्रवृत्तिनिवृत्ती वे धर्मपत्न्यौ। तयोः प्रवृत्त्यां समुत्पन्नं महामोहप्रधानमेकं कुलम् । निवृत्त्यां च द्वितीयं विवेकप्रधानमिति । - रतिः-(क) अज्जउत्त! जइ एव्वं, ता किंणिमित्तं तुह्माणं सोअराणं वि ईरिसं वेरम् ।
कामः- प्रिये! एकामिषप्रभवमेव महीपतीना.
मुज्जृम्भते जगति वैरमिति प्रसिद्धम् । पृथ्वीनिमित्तमभवत् कुरुपाण्डवानां
तीव्रस्तथा हि भुवनक्षयकृद् विरोधः ॥ १८ ॥
सर्वमेवैतज्जगदस्माकं पित्र्यमुपार्जनम् ।तच्चास्माभिरतातवल्लभतया सर्वमेवाक्रान्तम् । तेषां तु विरलः प्रचारः । तेनैते पापाः साम्प्रतं पितरमरमांश्चोन्मूलयितुमुद्यताः ।
(क) आर्यपुत्र! यद्येवं, तत् किन्निमित्तं युष्माकं सोदराणामपि ईदृशं वैरम् ।
वंशोदयमेव विशदयन्मातृभेदमाह-तस्य चेत्यादिना । मोहनिबन्धनत्वात् प्रवृत्तेस्तत्प्राधान्यं, विवेकायत्तत्वात् निवृत्तेरपि तत्प्राधान्यमिति ।
रतिः । आर्यपुत्र ! यद्येवं तत् किन्निमित्तं युष्माकं सोदराणामपि ईदृशं वैरम् ।
कामः । किमप्रसिद्धवत् पृच्छयत इत्याह - प्रिये इत्यादिना । आमिषं नाम भोज्यो विषय उच्यते । एकविषयविषक्ततयान्योन्यकलहकोलाहलाकुलता खलु सहोदराणामपि प्रसिद्धेति भावः ॥१८॥
तदत्र कथमिति चेत् तदाह -सर्वमेवैतदिति । पित्र्यमुपार्जनमिति । मनःस्पन्दनामात्रपरिकल्पितं स्वप्नप्रपञ्चवदित्यर्थः । हन्त तर्हि
१. 'दर्शयन्' ख. पाठ:. २. 'पानल', ३. 'तमस्मत्कुलं स्व' क. पाठः,
विषय मामिपि प्रासतदिति