________________
प्रथमोऽङ्कः । रतिः-(क) सुदं मए तुह्माणं समदमविवेअप्पहुदीणं च एवं उप्पत्तित्थाणं ति।
कामः-आः प्रिये! किमुच्यत एकमुत्पत्तिस्थानमिति । ननु जनक एवास्माकमभिन्नः । तथाहि -
सम्भूतः प्रथममिहेश्वरस्य सङ्गा
न्मायायां मन इति विश्रुतस्तनजः । त्रैलोक्यं सकलमिदं विसृज्य भूय
स्तेनाथो जनितमिदं कुलहयं नः ॥ १७ ॥ (क) श्रुतं मया युष्माकं शमदमविवेकप्रभृतीनां चकमुत्पत्तिम्थानमिति | इति । मानश्चित्तसमुन्नतिः । उक्तं च -
"अभिमानमपि प्राहुः स्वपौरुषगुणाश्रयाम् ।
प्रतीतिं सुखमात्राणां महतीनां समुद्भवाम !!" इति । मात्सर्य परगुणासहिष्णुत्वम् । दम्भो धर्मध्वाजत्वम् । स्तम्भोऽगणितगुर्वादितया दण्डवस्थितिः । आदिशब्देनाहङ्कारादया गृह्यन्ते । नरपतिमहामोहः। एतेष्वन्यतमोऽपि चेदनुवर्तते तसा न पुरुषार्थयोग्य इति भावः ।
रतिः । श्रुतं मया युष्माकं शमदमविवेकप्रभृतीनां चैकमुत्पत्तिस्थानमिति । चकाराद् विवेकमहामोहयोरपि समानान्वयत्वं श्रुतमित्यर्थः । समानजन्मभूमिकानां विवादो न घटनामञ्चतीति रत्याकृतम् ।
किमुच्यत इत्यादेरयमर्थः–एकमुत्पत्तिस्थानमिति त्वया न वचनीयम् । यतो जनकैकत्वमात्रमेवास्माकम् । नखलु जनन्येका । नापि तथाविधं सौहदमिति । जनकैकत्वमेव दर्शयति – सम्भृतः प्रथममित्यादिना । अयमर्थः -- कालकर्मविपाकापेक्षया परमेश्वरस्य असङ्गोदासीनम्वभावस्य मायानिमित्त एव मायायामुल्लासलक्षणः सङ्गः मञ्जायते । तेन चोलासेन समुल्लासिता माया महत्तत्त्वापरनामधेयं मनो नाम तनयमजीजनत् । तेन च मनसा भूभूधरसरित्सागरादिलक्षणभूतभौतिकप्रपञ्चप्रक्रियाप्रकारेणास्माकं महामोहादीनां विवेकप्रभृतीनां च कुलद्वयं विजृम्भितमिति ॥ १७ ॥
१. 'धीनत' घ. पाठः.