________________
प्रबोधचन्द्रोदये सव्याख्ये अहिंसा कैव कोपस्य ब्रह्मचर्यादयो मम । लोमस्य पुरतः केऽमी सत्यास्तेयापरिग्रहाः ॥ १५ ॥
यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाष. यस्तु निर्विकारचितैकसाध्यत्वादीषत्करसमुन्मूलना एव । अपिच स्त्रिय एवामीषां कृत्यास्तेनैतेऽस्मद्गोचर एव न वर्तन्ते । यतः
सन्तु विलोकनभाषणाविलासपरिहासकेलिपरिरम्भाः। स्मरणमपि कामिनीनामलमिह मनसो विकाराय॥ १६ ॥
विशेषतश्चैते मदमानमात्सर्यदम्भस्तम्भलोभादिभिर. स्मत्स्वामिवल्लभैरभियुज्यमाना नरपतिमन्त्रिणोऽधर्ममेवाश्रयिष्यन्ते।
तदेव दर्शयति - तथाहीत्यादिना । ब्रह्मचर्यादिधर्मप्रधानत्वाद् यमादीनां तदभावे ईषत्करेणाल्पव्यापारेण सुसाध्योन्मूलना एवेत्यर्थः । कृत्यानां नाशहेतुत्वाद् मनागप्यबलाप्रसङ्गश्चेदवश्यम्भाविन्यनर्थप्राप्तिरिति भावः ।। १५ ।। विलोकनं प्रेक्षणम् । भाषणं वाक्सम्मिश्रणम् । विलासो नाम “यांनासनशयनानां हस्तभ्रूनेत्रकर्मणां चैव ।
उत्पयते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥" इति शृङ्गारचेष्टाविशेषः । परिहासः प्रगल्भोक्तिः । केलिः क्रीडा । एते तावत् सन्तु तिष्ठन्तु । अस्मदभिप्रायसिद्धये परं स्मरणमेवालमित्याह - स्मरणमपीति ॥ १६ ॥
किचात्र न योषिदपेक्षा, मनोवृत्तिभिरेव सुसाध्या इत्याह-विशेषतश्चेति । मदो नामाविद्यानिमित्तो मनस उद्रेकः । प्रीतिनिर्वृतिनिमतेति यावत् । अथवा
"स एव स्वानुकूल्येन दर्शयन्नखिलं जगत् ।
यत्किञ्चित्कारिती चास्य कुर्वन् मद उदाहृतः ।।" १. 'श्यं भवत्यम' ख. पाठः. २. 'स्था' क. पाठः. ३. 'ना'. पा.