________________
प्रथमोऽङ्कः ।
२३ मम अगदखिलं वरोरु! नाज्ञा
मिदमतिलङ्घय धृति मुहूर्तमेति ॥ १३ ॥ तथाहि -
अहल्याया जारः सुरपतिरभूदात्मतनयां __ प्रजानाथोऽयासीदभजत गुरोरिन्दुरबलाम् । इति प्रायः को वा न पदमपदेऽकार्यत मया
श्रमो महाणानां क इव भुवनोन्माथविधिषु ॥१४॥ रतिः - (क) अज्जउत्त! एवं एदं । तहवि महासहाअसम्पण्णो सङ्गिदव्वो अरादी । जदोम्स जमणिअमप्पमुहा अमचा महाबळा सुणीअन्दि ।
कामः-प्रिये! यानेतान् राज्ञो विवेकस्य बलवतो यमादीनष्टावमात्यान् पश्यनि, त एते नियतमस्माभिरभियुक्तमा. त्राद् द्रागेव विघटिष्यन्ते । तथाहि -
(क) आर्यपुत्र ! एवमेतत् । तथापि महासहायसम्पन्नः शक्तिव्योऽरातिः । यतोऽस्य यमनियमप्रमुखा अमात्या महाबलाः श्रूयन्ते ।
अपि यदीति-समस्तमिदं जगत् कामपरवशमेवेत्यर्थः ॥१३॥
तदेव दर्शयति - अहल्याया इत्यादिना । अपदे अशास्त्रीये विषये को वा पदं न प्रापितः । उन्मायो नाम सर्वसायसम्पादनम् ॥ १४ ॥
रतिः । आर्यपुत्र ! एवमेतत् । तथापि महासहायसम्पन्नः शङ्कितव्योऽरातिः । यतोऽस्य यमनियमप्रमुखा अमात्या महाबलाः श्रूयन्ते । ।
__ नन्वते यमादयो वराका अस्मत्सम्प्रयोगमात्रादेव स्वस्वरूपेणैव वियोक्ष्यन्त इत्याह - प्रिये इत्यादिना । अभियुक्तमात्रात् सम्प्रयोगादेव केवलं द्राक् झटिति विघटिष्यन्ते शकलीकरिष्यन्त ।
१. 'थे' ख. पाठः. २. 'थनं ना' ख. ग. पाठः. ३. 'न्तीत्या' घ. पाठ:.