________________
-
-
प्रबोधचन्द्रोदये सव्याख्ये येन च
विवेकेनेव निर्जित्य कर्ण मोहमिवोर्जितम् । श्रीकीर्तिवर्मनृपतेर्बोधस्येवोदयः कृतः ॥ ९ ॥
(नेपथ्ये) आः पाप ! शैलूषाधम! कथमस्मासु जीवत्सु म्वामिनो महामोहस्य विवेकसकाशात् पराजयमुदाहरसि ।
एवं तावदध्यात्मोपदेशित्वाद् नाटकस्य सर्वतः प्रशान्तोऽधिकारी प्रसाधितः । इदानीं वर्तिष्यमाणाध्यात्मकथां प्रस्तौति- येन चेत्यादिना। येन गोपालेन श्रीकीर्तिवर्मनृपतेरुदयो निरतिशयैश्वर्यशालितया सर्वतः प्रयो. तमानत्वं कृतो निष्पादित इत्यन्वयः । किमिवेत्याह - बोधस्येवोदयः कृत इति । किं कृत्वेत्यत आह -- मोहमिवोर्जितं कर्ण निर्जित्यति । कथम्भूतेनेत्याह- कर्णमिवोर्जितं मोहं निर्जित्य स्थितेन विवेकनेत्यर्थः ॥९॥
अथवा चेदिपतिनेत्यादेरन्योऽर्थः । सकलनियन्तृब्रह्मचितिरेव पतिः स्वामी यस्य, सोऽयं चित्पतिरेवाहङ्कारः तेन चेदिपतिना चन्द्रवदाह्रादक. वैदिकमार्गश्चन्द्रान्वयः । लोकायतीकृतसर्वशास्त्रार्थस्य सन्मार्गस्थापनाय प्रवृत्तत्वात् तस्य च निर्वर्तितत्वात् उपपन्ना शान्तिरिति भावः । येन च रूपणाहङ्कारमाभासीकृत्यात्मज्ञानमापादितं, यथा खल्वहङ्कारादिवर्जितं मोहं निर्जित्य विवेकेन सम्यग्ज्ञानं सम्पादितमेवमित्यर्थ इति ___एवं तावद् विवेकेनेवोर्जितं मोहं निर्जित्य बोधस्येवोदय इति दृष्टान्तन्याजेन मुख्याधिकारिणः सम्यग्ज्ञानोत्पत्तिरभिहिता । तत्र मोहं निर्जित्येति वज्रपातोपमं वचनमाकासहमानोऽङ्कुशाकृष्टमददन्तिवदुद्वेलमुज्जृम्भते म. दन इत्याह - नेपथ्ये इत्यादिना। इत आरभ्योत्तरग्रन्थसन्दर्भेण नाटकापेक्षितस्वभावाख्यानरूपकाद्यलङ्कारप्रदर्शनपूर्वकं विवेकमहामोहयोर्जयपराजयाभिनयेन वेदान्तशास्त्ररहस्यार्थं सष्टयतीत्यासमास्तात्पर्यार्थः । तत्र ताब• महामोहसाराकुररूपमनङ्गं मूर्तिमत्त्वेन रूपयन्नुपेक्ष्यपक्षमुपक्षिपति-आः पापेत्यादिना । आः इति क्रोधवचने । राधकापशद!। .
१. 'च निरूपणेनाह' क. ग. घ. पाठः,
-
-