SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रथः । पुनः शान्तिमेव प्रपद्यन्ते । तथाहि परशुराममेवाकलयतु भवती तावत् । येन त्रिःसप्तकृत्वो नृपबहुलवसामांसमस्तिष्कपङ्क प्राग्भारेऽकारि भरिच्युतमधिरसरिहारिपूरेऽभिषेकः । यस्य स्त्रीबालवृद्धावधि निधनविधौ निर्दयो विश्रुतोऽसौ राजन्योच्चांसकूटत्रुटनपटुरटढोरधारः कुठारः ॥ ७ ॥ सोऽपि स्ववीर्यादवतार्य भूम औरं समुत्वाय कुलं नृपाणाम् । प्रशान्तकोपच्चलनस्तपोभिः श्रीमान् पुनः शाम्यति जामदग्न्यः ॥ ८ ॥ तथायमपि कृतकर्तव्यः सम्प्रति परां शान्ति प्रपन्नः। 'शोभा विलासो माधुर्य स्थैर्य गाम्भीर्यमव च । ललितौदार्यतेजांसि सत्त्वभेदास्तु पारुपाः ।।" इति । त एव भूषणं येषां ते तथा । अस्मदाीनां मनमाप्यचिन्त्यव्यापारसमलङ्कृता इत्यर्थः । वसा मांसस्नेहः मस्तिष्क पलम् । प्रारभारो नाम सलिलसन्दोहगतार्वाचीनजम्बालनिकुरुम्बम् । स्रीबालवृद्धावर्धाति । स्न्यादीन् वर्जयित्वेत्यर्थः । निधनं पञ्चत्वम् । तस्य विधी करण । राजन्याः राजानः । तेषामुच्चमुन्नतम् अंस एव कूटवत् कठोरत्वात् कूटः तस्य त्रुटनं भेदनं तस्मिन् पटुर्दक्षो रटन् शब्दं कुर्वन् (कुठारो ? कठारधारी) यस्य स तथा ।। ७॥ अवतार्यावरोप्य । समुत्खाय समुन्मूल्य । एवंविधपराक्रमपीरभ्रान्तभुवनत्रयोऽपि भगवान परशुरामः पुनः कृतकृत्यत्वात् प्रकृति प्रतिपद्यमानः स्वभावादेर्वं शंशमीतीत्यर्थः ।। ८ ।। इदानी दान्तिकमाह- -तथेत्यादिना । १. रोऽस्थ्नां स' क. पाठः. २. 'म्ब: ख पाट. ३. 'कटोरो' ग. घ. पाठः, ४. 'व शमं गत इत्यर्थः ख. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy