________________
१८
प्रबोधचन्द्रोदये सव्याख्ये सूत्रधारः-आर्ये! निसर्गसौम्यमेव ब्राह्म ज्योतिः कुतोऽपि कारणात् प्राप्तविक्रियमपि पुनः स्वभाव एवावतिष्ठते। यतः सकलभूपालकुलप्रलयकालाग्निरुद्रेण चेदिपतिना समुन्मूलितं चन्द्रान्वयपार्थिवानां पृथिव्यामाधिपत्यं स्थिरीकर्तुमयमस्य संरम्भः। पश्य तथा
कल्पान्तवातसंक्षोभलचिताशेषभूभृतः। धैर्यप्रसादमर्यादास्ता एव हि महोदधेः ॥ ६ ॥
अपिच । भगवन्नारायणांशसम्भूता भूतहिताय तथाविधपौरुषभूषणाः पुरुषाः क्षितिमवतीर्य निष्पादितकृत्याः तुरङ्गा एव तरङ्गवत् क्षोभकत्वात् तरङ्गमाला यस्य स तथा मातङ्गशब्देन पापापूर्वरूपकूटमुच्यते । पत्तिशब्देनागमापायधर्मवज्जन्तुसमूहोऽभिधीयते । एवविधजलधिविलोळने तर्केणापारवाग्बाहुनाधिक्षिप्तबौद्धादिपाषण्डराजापशदशतेन येन वादकलहजयश्रीः प्राप्तत्यर्थः । तस्य कथमिति । पराग्विषय. त्वात् प्रजापतिसृष्टेः 'मनुष्याणां सहस्रष्वि'त्यादिनाधिकारिणां दुर्लभत्वाद विशेषतश्चाहङ्कारप्रचुरमाद्यद्वाद्यवलेपलोपविधिषु व्यापृतत्वादनुपपन्न एवायं भातीत्याशय इति ।
सत्यमेवं, तथापि न कदाचिदपि प्रकृतेरन्यथाभावः । नैमित्तिकस्य तु निमित्तापायेऽपगमाद् यथापुरमेवावस्थानं सम्भवतीत्याह - आर्ये इत्यादिन । कुतोऽपि कारणादित्यमाणि । तदेवं विक्रियानिमित्तमाह - यत इत्यादिना ।
कथं तर्हि तस्य प्रकृत्यवस्थानमित्याकाङ्क्षायां दृष्टान्तेन दर्शयति-पश्येत्यादिना । तथेति । अनुपमक्षुब्धजलधिमेव तावत् प्रत्यक्षीकुर्वित्यर्थः । धैर्य विक्रियाभावः । उक्तं च -
"चापलेनानुपहता सर्वार्थेष्वविकत्थना । ___ स्वाभाविकी चित्तवृत्तिर्धयमित्यभिधीयते ॥" इति । प्रसादः स्वाच्छ्यम् । मर्यादा सीमा ॥ ६ ॥
तथाविधपौरुषभूषणा इति । तत्र पौरुषं नाम १. व क्रियतामित्याह', २. 'ण' श. पा:.