________________
प्रथमोऽङ्कः । आकण्णाकिट्ठकठिणकोअण्डदण्डबहळघणवरिसन्तसन्तअस. रधारानिअरजज्जरिजन्ततुरंअतरंअमाळं, णिरन्तरणिवडन्ततिक्खखग्गविक्खित्तसहत्थसत्थपलिअत्तोत्तुङ्गमाअंगमहाम• हीअरसहस्सं, भमन्तभुअदण्डमन्दळाहिहादघुण्णन्तसअळपत्तिसळिळसंघाअं, कण्णसेण्णसाअरं णिम्महिअ महुमहणेणव्व खीरसमुदं आसादिआ समरविजअळच्छी। तस्स संपदं सअळमुणिअणसिळाअणिज्जो कहं ईरिसो उवसमो संवुत्तो। अतरङ्गमालं, निरन्तरनिपतत्तीक्ष्णग्वडगविक्षिप्तस्वहम्तशस्त्रपर्यस्तोत्तुङ्गमातङ्गमहामहीधरसहसं, भ्रमद्भुजदण्डमन्दराभिघातघूर्णमानसकलपत्तिसलिलसङ्घातं कर्णसैन्यसागरं निर्मथ्य मधुमथनेनेव क्षीरसमुद्रमासादिता समरविजयलक्ष्मीः । तस्य साम्प्रतं सकलमुनिजनश्लाघनीयः कथमीदृश उपशमः संवृत्तः । इति । तदेव बहिरिहाह । आश्चर्यमाश्चर्यम् । येन तथा निजभुजबलविक्रमैकनिभत्सितसकलराजमण्डलेनाकणीकृष्टकठिनकोदण्डदण्डबहलघनवर्षसन्ततशरधारानिकरजर्जरत्तुरङ्गतरङ्गमालं निरन्तरनिपतत्तीक्ष्णखड्गविक्षिप्तस्वहस्तशस्त्रपर्यस्तोत्तुङ्गमातङ्गमहामहीधरसहस्रं भ्रमभुजदण्डमन्दराभिघातपूर्णमा नसकलपत्तिसलिलसङ्घातं कर्णसैन्यसागरं निर्मथ्य मधुमथनेनेव क्षीरसमुद्रमासादिता समरविजयलक्ष्मीः । तस्य साम्प्रतं सकलमुनिजनश्लाघनीयः कथमीदृश उपशमः संवृत्तः । स्वहस्तशस्त्रपर्यस्ता हस्ताहतिभिर्वियोजितप्राणाः । चिरकालार्जिततपसामपि महतां दुःशक एवायमुपशमः । एवंविधस्य तु गोपालस्य सुदूर एवायम् । अतो विन्ध्यप्लवनादिवदसम्भावित एवेति भावः ।
शेमुषीपक्षे योजना - अध्यात्मचिन्ताव्यवसितमालक्ष्य विरोधमिव मन्वाना पृच्छति बुद्धिः - आश्चर्यमित्यादिना । कुत्सितमृणं क्षुद्रफलं कर्म साधयतीति कर्णशब्देनाहङ्कारो गृह्यते । तत्सैन्यं रागद्वेषादिलक्षणम् । तदेव सागरवत् सागरः । तं विशिनष्टि - आकर्णेत्यादिना । दृढगृहीतयुक्तिकोदण्डमुक्तानिष्टापत्तिप्रसञ्जनपृषत्कविशीर्यद्ग्रहातिगृहलक्षणाः
१. 'त इव भातीति' क. ग. घ. पाठः.
D