________________
प्रथमोऽकः । अपिच अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालन
व्यावल्गन्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः। उद्गायन्ति यशांसि यस्य विततै दैः प्रचण्डानिल
प्रक्षुभ्यत्करिकुम्भकूटकुहर व्यक्तै रणक्षोणयः ॥ ५ ॥
तेन च शान्तपथप्रस्थितेनात्मनो विनोदार्थ प्रबोधचन्द्रोदयाभिधानं नाटकमभिनेतुमादिष्टोऽस्मि । तदादिश्यन्तां भरता वर्णिकापरिग्रहाय।। प्यते । विश्वेति । विश्वस्मिन् जगते विविधप्रकारेण बलवीर्यशौर्यतेजोगभस्तिभिः श्रान्ता व्याप्ता कीर्तिर्यशो यस्य स तथा । पूर्वमप्यभिषिक्त एव सन् अरातिरिक्तराज्यो यद्वीर्यात् नृपतिवदभिषिक्तः सोऽस्तीत्यवगतमेवेत्यर्थः॥४॥
इतश्चासौ सुवेद्य इत्याह । अपिचेत्यादिना । यस्य यशांसि वीरचरणसमज्ञा रणक्षोणयः सङ्ग्रामभूमयः विशेषणाभिव्यक्तैर्नादैर्ध्वनिभिरुचकैः अद्यापि इदानीमपि गायन्ति सोऽस्तीत्यन्वयः । कथम्भूतै दैरित्याह-प्रचण्डेति । प्रकर्षण चण्डेन बहुलेन वायुना क्षुभ्यत् कुञ्जराणां मस्तका एव कूटवत् कठिनत्वात् कूटास्तेषां कुहरं छिद्रं तत्र व्यक्तैनीदैः । कथम्भूता रणोणय इत्याकाङ्क्षायां विशिनष्टि-उन्मदेत्यादिना । उद्धतो मदो यासां यातुधानानां क्रव्यादानां तरुणीनां चश्चत् स्फुरत् कराणामास्फालनेन व्याक्षेपेण व्यावल्गद् विशेषेणाकुलीभवन् नृणां शिरःकपाला एव तालाः तेषां रणितैः शिजितैः सह नृत्यन्त्यः नर्तनं कुर्वत्यः पिशाचानामङ्गना वनिता यत्र तारणक्षोणयः तथोक्ताः । तत्प्रभावोऽद्यापि प्रत्यक्षीकर्तुं शक्यत इत्यर्थः ॥५॥
ततः किमिति तदाह -- तेनेत्यादिना । शान्तिपथास्थितेन । प्रत्यप्रवणेनेत्यर्थः । किं पुनस्तार्हे मया करणीयमिति, तदाह - तदादिश्यन्तामिति । तस्मादाज्ञाप्यन्तां नाट्यशास्त्रविदः । तत्तत्प्रवेशानुकूलकलापालङ्कृतपात्रपरिग्रहायेत्यर्थः ।
१. 'ति तदाह' ख, 'त्यत आह' घ. पाठ:. २. 'यामाह -उ' घ. पाठः. ३. 'र्थ. । अथवा उ' ख. पाठः.