________________
प्रबोधचन्द्रोदये सव्याख्ये
(प्रविश्य नटी) नटी- (क) एसह्मि । आणवेटु अय्यउत्तो को णिओओ अणुचिट्ठीयदु त्ति ।।
सूत्रधारः- आर्ये ! विदितमेव भवत्याः। अस्ति प्रत्यर्थिपृथ्वीपतिविपुलबलारण्यमूर्च्छप्रताप
ज्योतिर्वालावलीढत्रिभुवनविवरो विश्वविश्रान्तकीर्तिः। गोपालो भूमिपालान् प्रसभमसिलतामित्रमात्रेण जित्वा साम्राज्ये कीर्तिवर्मा नरपतितिलको येन भूयोऽभ्यषेचि
[॥४॥ (क) एषास्मि । आज्ञापयत्वार्यपुत्रः को नियोगोऽनुष्ठीयतामिति । सम्पन्नो वेदाङ्करसंरक्षणरूपनिरूपणेन नियुक्त इवायमधिकारी श्रोतव्यविध्यर्थः सम्पादनीयो मयेत्येवं प्रतिपन्नवान् इत्युक्तम् । अधुना श्रोतव्यविध्यर्थनिर्वर्तनप्रकारमेव दर्शयति - तद्भवत्वित्यादिना । गृहमन्तःकरणगुहाम् । गृहिण, बुद्धिम् आहूय पराविषयात् प्रत्यगाभिमुख्यमापाद्य । इतरंगीतानामल्पफलत्वादसम्यक्त्वम् । आत्मविषयं गीत सङ्गीतकम् । वेदान्तमहावाक्यानां शाक्ततात्पर्यपालोचनरूप(प्र)पञ्चात्मकविचारमनुतिष्ठामीति । नेपथ्यं पात्रपरिग्रहस्थानम् । इतरतावत् इहागच्छेति यावत् ॥
प्रविश्य नटी । आहेति शेषः । कथमिति, तदाह-एषास्मीति । आज्ञापयत्वार्यपुत्रः को नियोगोऽनुष्ठेय इति ।
विदितं खलु भवत्याः। किं तदिति । तदाह-अस्तीत्यादिना । प्रत्यर्थिनो विपक्षाः पृथ्वीपतयश्च । तेषां विपुलं प्रचुरं बलं सैन्यम् । तदेवारण्यमटवी, तत्र मूर्छत् प्रज्वलत् प्रतापो नाम दूरादेवारीणां भयजनकत्वं तदेव ज्योतिः तस्य जालाः शिखाः ताभिः आसमन्ताद् अवलीढमास्वादितं व्याप्तं त्रयाणां भुवनानां विवरमनारालं येन स तथा । पुनरपि विशि
१. 'णकुहरम्' ब, पाठ, २. 'या' क. पाठः. ३. 'त्वलक्षणः। स एव' ख. पाठः.