________________
प्रथमोऽङ्कः । ददूषिता इवातिवाहिता दिवसाः । इदानी तु कृतकृत्या वयम्। यतः
नीताः क्षयं क्षितिभुजो नृपतेविपक्षा - रक्षावती क्षितिरभूत् प्रथितैरमात्यैः । साम्राज्यमस्य विहितं क्षितिपालमौलि
मालार्पितं भुवि पयोनिधिमेखलायाम् ।। ३ ॥
तद् वयं शान्तरसप्रयोगाभिनयेनात्मानं विनोदयितुमिच्छामः । तद् यत् पूर्वमस्मद्गुरुभिस्तत्रभवद्भिः श्रीकृष्णभेदाः, तेषु समुन्मीलितैरभिव्यक्तैः विषयरसैपिता मोघीकृता इवेत्यात्मनैवान्ववेदीत्यर्थः । ननु किमित्ययमनुशोचितवान् , सर्वेरेव दिवसा अतिवाह्यन्त इति चेत्, सत्यम् । तथापि परिभ्रष्टपरमानन्दत्वात् सम्भवतीत्याह---- अन्तरितपरब्रह्मानन्दैरिति । राजकार्यव्यग्रतया बाहिर्मुख्येन विगलितप्रत्यगानन्दैरस्माभिरित्यर्थः । हन्त तर्हि ब्रह्मानन्दरागी चेदविवेकिवद् असिधाराव्रतसमं राजामात्यपदं प्राप्येवंविधदुर्व्यसनं किमिति चर्करीति, तत्राह- सहजसुहृद इति । अकृत्रिमप्रेमरसस्नपितनिसर्गसान्द्रसौहार्दशालिनः परमसुहृदो वचनस्यानुष्ठेयत्वात् 'परोपकाराय सतां प्रवृत्तिरिति वचनाचावश्यानुष्ठेय एवायमर्थ इति भावः । ननु
"न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥" इति न्यायात् पुनरपि तथैव प्रवर्तता मत्याशङ्कयाह ---- इदानीन्त्वित्यादिना । सुहृदर्थचिकीर्षया प्रस्तुतरपार्थस्य च निर्वर्तितत्वाद् , न भूयोऽपि तथा प्रसरीसीति भावः ।
कार्तार्थ्यमेव प्रतिपादयति- यत इत्यादिना । सुहृत्कार्य कास्न्येन सम्पादितमित्यर्थः ।। ३ ॥
फलितमाह -तव्यमित्यादिना । "कृतकृत्यस्य कामेऽधिकार" इति वचनाद् विषयापरोक्ष्यवच्छान्तरसस्नैपितैरभिनयविशेषैरात्मानन्दास्वाद
१ 'सरता त' ख पा. २. सहित क. ४: