________________
प्रथमोशः। बलवदरिनिवहवक्षःस्थलकवाटपाटनप्रकटितनरसिंहरूपेण प्रबलतरनरपतिकुलप्रलयमहार्णवनिमग्नमदिनीसमुद्धरणोपनीतमहावराहरूपेण सकलदिग्विलासिनीकर्णपूरीकृतकीर्तिलतापल्लवेन समस्ताशास्तम्बरमकर्णतालास्फालनबहलपवनसम्पातप्रवर्धितप्रतापानलेन श्रीमता गोपालेन । यथा खल्वस्य सह
प्राबल्यं दर्शयति - बलवदित्यादिना । बलवन्तश्चारयः शत्रवस्तेषां निवहः समूहस्तस्य वक्षःस्थलमुरःस्थलं तदेव कवाटं तस्य पाटनेन विदारणेन प्रकटितं नरसिंहस्य रूपमिव रूपं येन स तथोक्तः । तेनातितेजस्विनादिष्टार्थाकरणे महाननों भवतीति भावः । तातीयेन विशेषणेनातिरमणीयादिकोलतुलितसामर्थ्यप्रदर्शनेन परोपकारशीलता प्रागबलस्येति दर्शयति - प्रबलेत्यादिना । प्रकर्षण बलिष्ठानां नरपतीनां कुलं समाजः । स एवाल्पसत्त्वैर्मनसाप्पवगाहितुमशक्य इति प्रलयमहार्णववदर्णवः तत्र निममत्वं नाम तैराकान्तत्वं , तन्निरसनेन मेदिन्याः सम्यगुद्धरणमात्मसात्सम्पादनं, तेनोपनीतमहावराहरूपेण । आत्मादेशानुवर्तिनामनुकूलानुभावेनेत्यर्थः । चतुर्थेन विशेषणेन पुण्यवत्प्राथमिकतां दर्शयति-सकलेत्यादिना । सकलदिग्विलासिनीनामाखलाशाङ्गनानां लीलाकुवलयादिकं कर्णालङ्कारभूतं कर्णपूरमित्युच्यते । तद्वदखिलाह्लादकरी कीर्तिरस्पेति । पाश्चमिकेन च व्यावर्तकेन निरङ्कुशाज्ञाग्रहगृहीतासज्जनाशयसन्तापकद्युतिसन्दोहैः सर्वतो देदीप्यमानतां दर्शयाते--समरताशेत्यादिना । समरताश्च ता आशाः ककुभः तासु स्तम्बरमा मातङ्गाः तेषां कर्णा एव तालाः, तेषामास्फालनेन सञ्चालनेन बहलः सान्द्रः पवनो वायुः तस्य सम्पातेन प्रवर्धितः प्रतापो दूरादेवारीणां भयजनकत्वलक्षण एवानलो यस्य, स तथोक्तः। तेनाप्रधृष्यनिजतेजसेत्यर्थः। षष्ठेन च व्यवच्छेदकेनानुक्तैरगणितगुणगणमणिश्रेणिभूषणैरलं जाज्वल्यमानतां दर्शयति - श्रीमतेत । गां भुवं पालयतीति गोपालः । एवं विधेनाज्ञापितत्वादवश्यानुष्ठेय एवायमर्थ इति भावः । ननु कथमयं ब्राह्मणो विशेषविज्ञानी च सन् भूपालः स्यादिति चेद्, नायं दोषः । “दौर्मन्च्या
१. 'मि' ख. पाठ:.