________________
प्रबोधचन्द्रोदये सव्याख्ये
"नन्दी वृषो वृषाङ्करय रङ्गोऽभून्नृत्यतः पुरा ।
अतस्तदाख्यया नान्दी रङ्गपूजा प्रकीर्तिता ॥" इति वचनाल्लाजाञ्जलिप्रकिरणादिना क्रियमाणा सपर्येति । अथवा, सकललोकसन्तोषकरनृत्तदिदृक्षवः सुरनरकिन्नरगन्धर्वादयः सर्वतोदिशं गताः सम्भूय समायान्त्वित्यभिसन्धाय क्रियमाणा मुरजमृदङ्गतालादिसामग्रीसहिता सपर्या पूर्वरूपत्वान्नान्दीति निगद्यते । अथवा,
___"सभ्यान् नन्दयतीत्युच्चैः सा नान्दीति निगद्यते ॥" इति वचनात् सभ्यावर्जनरूपा सपर्येत्येवंविधा नान्दी । पूजावसान इत्यर्थः। ततः किमिति तदाह - सूत्रधार इति । वर्तिष्यमाणकथासूचकत्वात् सूत्रं तदर्थाभिव्यञ्जिकां मजुवाचं धत्त इति धारः । नाट्यशास्त्रोक्तप्रकारेणाभ्युक्षितरङ्गमधिरुह्य सपर्यासमुल्लासिताशयं सज्जनसमाज सभाजयन् रङ्गाचार्यों नाट्यार्थशेषतया प्रवर्तत इति शेषः । अथवा नन्दी वृषः । वृषशब्दस्तु धर्मवचनः । तस्यान्तेऽवसाने । एतदुक्तं भवति-ईश्वरार्पणबुद्ध्यानुष्ठितविहितकर्मणामवसानं प्रत्यक्प्रावण्यं तस्मिन् सतीति । ततः किमिति चेत् तदाह - ततः प्रविशतीत्यादिना । ततो मायायवनिकातः तां विधून्वन्नीश्वरानुग्रहात् विवेकादिसम्पन्नः शमादिशाली श्रद्धावान् 'अथातो ब्रह्मजिज्ञासा' (ब० सू० १-१-१) इत्यादिसूत्राणां धारणात् सूत्रधारोऽधिकारी वस्तुस्वरूपसमन्वयाविरोधसाधनफललक्ष(णफलपञ्चात्मक ? णात्मकशास्त्र)विचारनिर्वर्तनाय प्रक्रमत इत्यर्थः । रङ्गाचार्यप्रवृत्तिमेव दर्शयति - आदिष्टोऽस्मीत्यादिना । गोपालेनाहमादिष्टोऽस्मीति सम्बन्धः । चिरव्यवहितमिवादेशार्थमात्मगतमेव साटोपमनुसन्धत्त इत्यर्थः । आदेशार्थगौरवप्रदशनाय बहुभिर्विशेषणैर्गोपालं महीकरोति- सकलसामन्तेत्यादिना । तत्र तावत् प्राथमिकेन विशेषणेनैश्वर्यातिशयप्रदर्शनं क्रियते । सकलाश्च ते सामन्ताश्च तेषां चक्रं समूहः । तस्य चूडा मकुटम् । तत्रोप्तानां मणीनां रश्मयो मरीचय त एव मञ्जरीवन्मजरी स्तबकः तेन नीराजितमभिद्योतितं चरणकमलं यस्य स तथोक्तः । तेन राजप्रकृतिवन्येनेत्यर्थः । द्वितीयेन विशेषणेन श्रीमन्नरहरिसाम्यसम्पादनेन भुवनकण्टकोद्धरणसमर्थपराक्रम
१. भूतः पुरा किल ।' ख. ग. पाठ.. २. 'दिका मञ्जुलां वा' स्व. पाठः ३ 'यो रङ्गार्थ' ग. पाट:.