________________
....... -
प्रथमोशः। (नान्द्यन्ते ततः प्रावेशति सूत्रधारः ।) सूत्रधारः -अलमतिविस्तरेण । आदिष्टोऽस्मि सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचरणकमलेन दर्शनात् सान्द्रानन्देऽपि तद्वदेव निखिलदुःखारोप इति । नन्वेवं परस्पराध्यासे द्वयोपि बाध्यत्वात् सर्वशून्यताप्रसङ्ग इत्याशङ्कयाह - सान्द्रेति । सकलभ्रमाधिष्ठानभूतपरनानन्दचिद्धनं वस्तु परिशिष्टं विद्यत इत्यर्थः । तत्र प्रमाणमाह - स्वात्मेति । तत्रैव मानान्तरसद्भावमाह-अपिचेति ।
“सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते ।" । इति न्यायात् सर्वप्रमाणानि चात्र मानमिति भावः । अन्तरङ्गसाधनानुष्ठानप्रचयात् करतलन्यस्तकुवलयदलवदपरोक्षीकर्तुं च शक्यत इत्याह - अन्तर्नाडीस्यादिना । एवमध्याससमर्थनमायेन श्लोकेन द्वितीयेन तु साधनप्रदर्शनं क्रियत इत्येके प्रतिपन्ना इत्यर्थः । सगुणनिर्गुणप्राधान्येन तत्त्वानुस्मरणं क्रियत इति पक्षान्तरम् । तथाहि-नाटके तावदधिकारिभेदापेक्षया सगुणनिर्गुणरूपेण वस्तु प्रतिपाद्यते । तत्र निर्गुणानुगुण्येन निर्गुणं वस्त्वनुसन्दधात्यायेन श्लोकेन । द्वितीयेन तु सगुगम् । अस्मिस्तु पक्षे जगज्जन्माग्रुपलक्षितं विदुषां रवानुभवगरपमशेषानर्थरहितमनवच्छिन्नानन्दचिद्धनं वस्त्वित्याद्यश्लोकार्थः । द्वितीये स्पष्टमेव चन्द्रशेखरस्योमावल्लभरय सगुणब्रह्मरूपत्वं, षष्ठया त्वौपचारिकार्थत्वमिति विशेषः । अथवा, वेदान्तानां प्रति. पादनप्रक्रियाभेदप्रदर्शनं क्रियते प्राधान्येनार्थंकरवदाव्येति मतम् । अथवा, पूर्वेण देवतानमस्कारः क्रियते । उत्तरेण गुरुनमस्कार इति मत्तम् । सर्वेष्वेषु पक्षेष्वक्षराणि'यथासम्भवं योज्यानि । अन्ये तु गुरोर्नाम चन्द्रार्धमौलिरिति । देवताभक्तिवद् गुरुभक्तेरपि ज्ञानप्राप्तावन्तरङ्गसाधनत्वाद् गुरुचरणसरोजप्रणतिरवश्यकरणीयेति भावः ॥ २ ॥
___ एवं तावदशेषनाट्यानामाद्याचार्यस्य नृत्तस्वामिनः परमगुरोः परमेश्वरस्यानुस्मरणात् परिहताशेषान्तरायः तत्रभवान् नाटकारम्भं प्रतिजानीतेनान्द्यन्त इति । तत्र नान्दी नाम
१. 'ण' ग. पाठ:.