________________
प्रबोधचन्द्रोदये सव्याख्ये प्रत्यग्ज्योतिर्जयति यमिनः स्पष्टलालाटनेत्र
व्याजव्यक्तीकृतमिव जगद्व्यापि चन्द्रार्धमौलेः॥२॥ सार्थः । अथवा 'राजदन्तादेवु परमिति वा । अन्तर्नाडोनियमनं नाम योगशास्त्रानुसारेणेन्द्रियवृत्तिभिः सह प्राणस्य स्वरससञ्चारनिरोधेन सुषुम्मामार्ग एव नितरां यमनं प्रत्यापादनम् । तेन नियामतेन मस्ता लक्षितमतिक्रान्तं ब्रह्मरन्ध्र सौषुम्नमार्ग येन तत् तथोक्तम् । ब्रह्मप्राप्तिहेतुभूतब्रह्मनाडीद्वारेण मरुता सह कारणावध्यनुस्मयमाणमित्यर्थः । शान्त्यादिसहकृतयोगानुष्ठानफलमाह - स्थान्त इत्यादिना । स्वान्तमन्तःकरणं तास्मन्नन्त:करणे बाहिर्मुख्यं विहाय शान्त्यादिपक्षपातेन वर्तमाने सति सम्यगपरोक्षतया उन्मीलन अभिव्यज्यमानपरमसुखमित्यर्थः । एवं तावत् श्लोकद्वयेन तत्त्वम्पदार्थानुस्मरणप्राधान्येन मङ्गलमकारीत्येकपक्षः । अपरे तु 'युष्मदस्मदि'त्यादिभाष्यपदानुसारेण नाटकारम्भापेक्षितविषयादिप्रसिद्धये द्वैतेन्द्रजालस्याध्यासोपवर्णनं क्रियते प्राधान्येनेोते वर्णयाम्बभूवुः । तदपरे न क्षमन्ते । तथाहि-ननु अध्यासो नाम परत्र परावभासलक्षणः । स च शुक्तिरुप्यादौ सादृश्यसम्प्रयोगसंस्कारादिसहित एव दृष्टचरः। तच्च सादृश्यादिकमात्मानात्मनोर्न सम्भवति । अनात्मा तावद् दुःखाद्यात्मकः । आत्मा तद्विलक्षणः सुखाद्यात्मकः । अतस्तयोरध्यासव्यापकसादृश्याघभावाद् इतरेतराध्यासो न सम्भवतीति चेद्, नायं दोषः । पूर्वज्ञानसंस्कारसध्रीचीनस्याज्ञानमात्रस्यैवाध्यासव्यापकत्वात् तस्य चात्मादावापे सुलभत्वात् । यद्यपि रजताधध्यासे सादृश्यादि बहु विद्यते, तथापि न त(पैलत्वादिव?)दध्यासप्रयोजकं भवति । खं कृष्णं, तलं मलिनं, पीतः शङ्खः, तिक्तो गुडः इत्यादिषु सादृश्यादिभिर्विनैवाध्यासदर्शनात् । अज्ञानेन विना काप्पदर्शनात् । अतोऽविद्यानिमित्तः परस्पराध्यासः सम्भवत्येवेति । इममर्थमाह -मध्याह्वेत्यादिना । तत्र मरीचिकास्विवेाते दृष्टान्तेन तिग्मद्युतिदीधितिनिवहे दुःखरूपे सुखशीतलसालेलसमारोपो यथा, तद्वदनात्मनि दुःखाद्यात्मके परमानन्दाध्यासोऽपीति विवक्षितः । स्रजि च सुखात्मके दुःखरूपोरगारोप
१. 'ह अनुकारिणा बुद्भ्यानु', २. 'र्वानुभवसध्री' ख. पाठ:. ३. 'त्पञ्चपल'
क. ख. पाठः.