________________
प्रथमोऽकः । अपिच अन्तर्नाडीनियमितमरुल्लवितब्रह्मरन्ध्र
स्वान्ते शान्तिप्रणयिनि समुन्मीलदानन्दसान्द्रम् । मित्यङ्गीकृत्यापि पुरुषस्य वेद्यतामाहुः सांख्याः । तान्निराचष्टे- स्वात्मावबोधमिति । स्वयम्प्रकाशसंविद्रूपमित्यर्थः । प्राभाकरास्त्वप्रसन्नाशयत्वाज्जड एवात्मेति प्रतिपन्नाः, तदपाकरोति - मह इति ।
"ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः" इति न्यायात् स्वयम्प्रकाशचिद्घनमित्यर्थः ॥ १॥
एवं तावत् तत्पदार्थप्राधान्येन तत्वमनुसन्धाय इदानीं त्वम्पदार्थप्राधान्येन तदेवानुसन्दधान आह–अपिचेति । तत्राप्यन्तरङ्गसाधनत्वं योगाभ्यासस्य दर्शयन् तत्फलरूपतया प्रतीचः सर्वोत्कर्षतामाह- अन्तर्नाडीलादिना । चन्द्रार्धमौलेः मृडानीपतेः प्रत्यग्ज्योतिः अन्तर्यामिस्वरूपं जयति सर्वोत्कर्षेण वर्तत इत्यर्थः । यमिन इति तस्य विशेषणम् । यमिनो योगमनुतिष्ठतः । मूलाधारमारभ्याद्वादशान्तमत्यन्तसूक्ष्मतरप्रत्यग्वस्त्वनुसन्धानरूपयोगाभ्यासं कुर्वत इत्यर्थः । कथम्भूतं ज्योतिरित्याकाङ्क्षायां कविभिरेवमुत्प्रेक्षितमित्याह - स्पष्टेत्यादिना । स्पष्टं च तल्ललाटे भवं चेति विग्रहः । स्पष्टत्वं नाम सर्वानुग्राहकतया सन्ततप्रद्योतमानत्वम् । नेत्रमिति व्याजो नेत्रव्याजः । तेन व्याजेन निभेन व्यक्तीकृतमभिव्यक्तमिवेत्युप्रेक्षार्थः । एतदुक्तं भवति-निसर्गनित्योपरतस्य सन्ततयुक्तात्मनः परमेश्वरस्य प्राण्यनुग्रहाय योगमाहात्म्यं प्रदर्शयितुं लोकप्रत्ययार्थ भ्रूमध्यगतद्विदलपद्ममध्यारूढं तदेव प्रत्यग्वस्तु व्यक्तीकृतमिवेति सम्भाव्यते तचैवमुत्प्रेक्ष्येति । अथवा इवकारस्त्वेवकारार्थः । उक्तप्रकारेण व्यक्तीकृतमवेत्यर्थः । तस्य नि. रुपाधिकं रूपमाह- जगद्व्यापीति । सर्वस्य सत्तास्फूर्तिप्रापकं सत् साक्षित्वेन वर्तत इत्यर्थः । तदेव युक्तावस्थाविशिष्टं वस्तु विशिनष्टिअन्तर्नाडीत्यादिना । देहस्यान्तर्विद्यमाना प्रधाना नाड्यन्तर्नाडीत्युच्यते । अथवा 'अव्ययं विभक्ती'त्यादिपाणिनिसूत्रानुसारेण नाड्या अन्तरिति समा
१. 'त्यन्वयः।' ख. पाठ:. २. 'क्ष' क. पाट:. ३. 'स्थायुक्तं व', ४. 'ति वार्थः' ख. पा.