________________
प्रबोधचन्द्रोदये सव्याख्ये कार्य जायत इत्यसत्कार्यवादिनां गलगर्जनम् । तन्निराकरोति-उन्मीलतीति । नीरूपस्यासतः सामग्रीसम्बन्धाधनुपपत्तेः कारणात्मना विद्यमान. मेव कार्य द्रष्ट्रादिसहकृतसामग्रीसम्बन्धादभिव्यज्यत इत्यर्थः । स्वरूपादप्रच्युतस्यैव कारणस्यासत्यनानाकारावभासो हि विवर्त इत्येवंविधविवर्तवादावलम्बनेनोदाहरणमुदाहरति - मध्याह्नार्केति । यथा खलु लोके कस्यचित् पान्थस्य भागीरथीं गन्तुं प्रस्थितस्य निदाघकालतिग्मद्युतिदीधितिदीतस्यातिपिपासापरिम्लानमनसो द्युमाणिकिरणकिरणितमिरिणतरमसृणधरणिमण्डलमालक्ष्योद्यद्बलवदनिलौघनुद्यमानसलिलसन्दोहसम्भ्रान्तिः संजायते, एवमेवास्य प्रपञ्चस्य दृष्टादृष्टनष्टस्वभावस्य भावाभिमानपरिभ्रान्तिरपीति भावः । एवं तावत् तटस्थलक्षणमभिधाय विषयादिकं सम्भावयन्नस्य निरुपाधिकं स्वरूपं दर्शयितुमाह - यत्तत्त्वमित्यादिना । यस्य तत्त्वं पारमार्थिक रूपमिति यावत् । तदेव ज्ञातं सदनन्यसाधारणतया विषयो भ. वतीति भावः । विदन्तीति विद्वांसः तेषामपरोक्षीकृततत्त्वानामित्यर्थः । ननु चेतनान्तरस्याप्रत्यक्षत्वादपरोक्षीकृतोऽनुपपन्न इति चेद्, नायं दोषः । तद्भेदे प्रमाणाभावाद्, अनङ्गीकाराचेति । ननु तेषां किं भवतीत्याकाङ्क्षायामाह -निमीलतीति । अस्य संसारस्य सता सहान्वयेन व्यतिरेकेण शून्य तया वा निरूपणयोग्यं रूपं न लभ्यत इत्येवमन्वयव्यतिरेकामावपरिहारात् सकलसंसारानर्थनिवृत्तिः प्रयोजनं भवतीत्यर्थः । पुनःशब्दोऽत्र निःश्रेयसयोग्याधिकारसामग्रीसम्पत्त्यानन्तर्यप्रदर्शनार्थः । सकलभ्रमाधिष्ठानभूतात्मतत्त्वयाथात्म्यज्ञानादारोपितद्वैतभ्रमनिवृत्तिरित्यत्र सम्प्रतिपन्नं दृष्टान्तमाह - स्रग्भोगीति । स्रजि भोगी स्रग्भोगी । स्रङ्माला । भोगी भुजङ्गः । तस्य भोगः शरीरम् । तेनोपमीयत इति स्रग्भोगिभोगोपमम् । यथा खलु स्रगापरोक्ष्येणारोपितभोगिभ्रमनिवृत्तिः, तथैव तत्त्वज्ञानाद् द्वैतप्रपञ्चोऽपि निमीलति । बाध्यत इत्यर्थः । एवं तावदनर्थनिवृत्तिरूपपुरुषार्थताभिहिता । इदानीमानन्दाविर्भावरूपपुरुषार्थतामाह --- सान्द्रेति । सान्द्रं बहुलम् । अनवच्छिन्नानन्दस्वरूपमित्यर्थः । तदेव ज्ञाततया पुरुषार्थों भवतीति भावः । तदेव विशिनष्टि -- अमलमिति । अविद्यादिमलरहितमित्यर्थः । चिद्रूपं
१. 'नं निरा' ख. पाठः, २. 'णं विदन्तीति' क. पाठः. ३. 'तसत', ४. 'न्वयव्य' ग. पाठः. ५. 'तामभिधायेदानी', ६. 'पत्वमङ्गी' ख. पाठः,