________________
प्रथमोक्षः। प्रदर्शनीयत्वात् । विचित्रप्रज्ञत्वाच्च प्राणिनां केषाञ्चिदाकारानं जन्यते, केषाश्चिदिङ्गितैः, केषाञ्चिदभिनयैरपि ज्ञानं जायमानं परिदरीदृश्यते, रोमाश्चितस्वहर्षाश्रुपातमुखविकासादिलिङ्गदर्शनात् ।।
"प्रयोजनेषु ये सक्ता न विशेषेषु भारत! ।
तानहं पण्डितान् मन्ये विशेषा विधकारकाः ॥" इत्याधनुसारेण च येनकेनापि प्रकारेण पुरुषार्थों भूयादिति परमकारुणिकानां प्रवृत्तिरित्ययमारम्भः सम्बोभवीति । धर्मशास्त्रनिषेधस्तु केवलपरिबाजकविषय इति सकलमनाकुलम् ।
वेदाधिकारविधुरान् विदुषो विलोक्य
व्रात्यादिकान् विदितनाटककाव्यसारान् । तबुद्धिवृत्त्यनुगुणं कृपया करोति
ब्रह्मोपदेशमपि नाटकरूपमेव ।। तत्र तावदाद्यश्लोकगततन्महः इत्यस्य व्यवहितेनोपास्मह इत्यनेन सम्बन्धः । उपास्मह इत्यस्यायमर्थः
___"उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते ।" इति न्यायात् सर्वतः प्रद्योतमानमद्वयं परिपूर्ण सत्यज्ञानानन्तानन्दलक्षणं ब्रह्मशब्दाभिधेयं प्रसिद्धतमं वरतु प्रत्यक्त्वेन जानीम इति । पूर्वार्धेन तु श्लोकस्य तदमलमित्यत्र तच्छब्दापेक्षितं पूरयन्नस्य तत्त्वस्य सोपाधिकं रूपमाह- यदज्ञानत इत्यादिना । यस्याज्ञानं यदज्ञानम् । पञ्चम्यास्तु निमित्तोपादानयोः साधारण्यात् यस्माचैतन्यसंवलितात् कारणादित्यर्थः । तत्र प्रपञ्चैकदेशस्याकाशपरमाण्वादिलक्षणस्याजन्यत्वं वैशेषिकादयः संगिरन्ते । तान् प्रत्याह – खमित्यादिना । एवं तर्हि भूतपञ्चकोपादानाद् भौतिकस्याज्ञानकार्यत्वं न सेत्स्यतीत्याशङ्कयाह - त्रैलोक्यमिति । त्रयाणां लोकानां समाहारस्त्रैलोक्यम् । सुरनरसूकरादिभेदभिन्नभूधरसरित्सागरादिलक्षणभूतभौतिकप्रपञ्चस्य निरूप्यमाणे सत्यविद्यात्मकभूतपञ्चकव्यतिरेकेण तात्त्विकरूपं न विद्यत इति कृत्वा इति त्रैलोक्यमित्युक्तम् । अतोऽविद्यात्मकत्वं भौतिकस्य स्यादिति भावः । तत्रोत्पत्तेः प्रागत्यन्तासदेव
१. 'प्रतिपादकत्वात्' क., 'प्रदर्शितत्वात्' ग. पाठः. २. 'म् । तत्र' ख. ग. पाठः. ३. 'स्य पदस्य व्य' स्व. पाठ:.