________________
प्रबोधचन्द्रोदये सव्याख्ये
स्तत्साधनसम्यग्ज्ञानप्रकाशनायापरोक्षाकृताखिलागमाथै निखिलनिगमावसानसारसङ्गहरूपं प्रबोधचन्द्रोदयं नाम नाटकं निरमायि ।
अतिललितपदकदम्बकमतिगम्भीरार्थमखिलरसपुष्टम् । आल्यानमेतदतुलं व्याख्यातुं ग्रन्थकोटयो नालम् ॥ रसैर्भावैरलङ्कारैः समासैश्च पदैरपि । प्रसङ्गानुप्रसङ्गैश्च शास्त्रान्तरनिरूपणे ॥ कालक्षेपो महानासीद् ग्रन्थानामपि गौरवम् ।
श्रोतुश्च तन्द्री महती तस्मानातिप्रपञ्च्यते ॥ तदिदं यथाशक्ति श्रद्धादिप्रेरितन मया यथाश्रवणं संक्षेपतो व्याख्यायते । तत्रादौ तावद् भरतादिनाट्यशास्त्रानुसारेण नाटकारम्भापेक्षितनान्दीसपर्या सम्पादयन् नाटकव्याजेन प्रतिपाद्याखण्डैकरसानन्दब्रह्मात्मैकत्वं च संक्षेपतः प्रदर्शयन्
"स्मृते सकलकल्यागभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥" इत्यादिवचनानुसारेण स्वरूपतटस्थलक्षणोक्तिद्वारा तत्त्वानुस्मरणलक्षणं मङ्गलं सम्पादयति- मध्याहृति । ननु किमिति नाटकव्याजेन वेदान्तार्थः प्रदर्श्यते । सन्ति खलु बहूनि शास्त्राणि निःश्रेयसप्रतिपादकानि । किञ्च, नाटकस्य शृङ्गारादिरसप्रधानत्वात् तद्विरक्तस्य च निःश्रेयसाधिकाराद् 'वान्तोऽसौ ब्रह्मणे' त्यादिना च शास्त्रेण बहिर्मुखानामत्राविकारित्वप्रतिषेधाच्च निरतिशयपुरुषार्थशेषतया न नाटकारम्भः सञ्जाघटीति । किञ्च, धर्मशास्त्रेषु निवृत्तसङ्गानां मुमुक्षूणां विशेषेण सङ्गीतकादिप्रतिषेधादनुपपन्न एवायमारम्भ इति चेद्, नायं दोषः । अधिकारिभेदादस्यार्थस्योपपत्तेः । तथाहि - अनन्तेषु हि प्राणिषु केषाञ्चिदनेकजन्मस्वीश्वरार्पणबुद्ध्यानुठितपुण्यनिवहैरवदातान्तःकरणानामीश्वरप्रसादाच्छर्दितान्न इवास्मिन् संसारे वैतृष्ण्यादिपूर्वकविविदिषाशिरस्कं मुमुक्षोपजायते । तेषां च मुमुक्षूणां केवाचिद् वैदिकानधिकारान्निःश्रेयसरागपरवशतया च कातराणामुपायपरिज्ञानरहितानाम्
"उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।" लादिशास्त्रानुसारेण गुरुपादं चोपसृप्तानां मोशयाधनसम्यग्ज्ञानस्यावश्य