________________
॥श्रीः॥ श्रीकृष्णमिश्राचार्यप्रणीतं प्रबोधचन्द्रोदयं नाटकाभरणाख्यव्याख्योपेतम् ।
प्रथमोऽङ्कः। मध्याह्नार्कमरीचिकास्विव पयःपूरो यदज्ञानतः ___ खं वायुर्खलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति । यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमं सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधं महः॥१॥ यदज्ञानाद् विश्वं भवति फणिवद् रज्जुशकले
निलीनं यज्ज्ञानाद् झटिति सनिदानं त्रिभुवनम् । यदुच्चैराम्नायैर्विशदमवगम्यं मुनिजनै
स्तदेतद् ब्रह्माहं सहजपरमानन्दमधुरम् ॥ नत्वा गौरीगुरुं गौरी माधवं मां गुरुं तथा । नाटकाभरणं नाम टिप्पणं क्रियते मया ॥
इह खलु निखिलमलनिचयनिकेतनविपुलपूतिकुलायदुःसहगर्भभूमिपरिभ्रमणपरिदूयमानदेहानां परुषतरक्रकचनिष्ठुरमातृपास्थिपरिपीडितानाम्
अत्यन्तसङ्कटतरस्थपुटयोनिद्वारनिःसरणप्रमुष्टपूर्वस्मृतीनां जन्मजरामरणकुम्भीपाकादिदुःखबातेष्वनादिषु गङ्गाप्रवाहवदनवसानमनवरतपरिभ्रमितानां चक्रवदनिशं बम्भ्रम्यमाणानां चतुर्मुखमुखैरप्यशक्यग(ण्य ? णन)दुःखबातदुःखितानां संसारिणामेवंविधदुःखबातमयात् संसारसागरात् कथंनु नाम दुस्तरान्निस्तरः स्यादिति परमकृपाविधेयहृदयैस्तत्रभवद्भिः श्रीकृष्णमिश्राचार्य
१. 'लनि', २. मृ' ख. पाठः. ३. 'ताच्छिद्रच' क. ग. पाट:. ४. । ख. पाठ:. 8. P. T. 1842. 500. 31-2.1107.