________________
"स्मृते सकलकल्याणमाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥" इति परम्पराप्राप्तदेशीयाचारगतिमनुरुन्धता श्लोकेन बाढं द्रमिडदेशीयाः केऽप्यर्वाञ्चो भवेयुरित्यस्ति प्रतिपत्तव्यम् । तत्तत्सूत्रीयकालमतिक्रम्य मार्तविधानपरिकल्पनार्थ तत्तैः परिगुम्भितां सरणिमजहतः, वेदान्तपरिभाषाव्याख्यादिदृष्टतर्कजटिलवाक्यान्यनारचयन्तो मृदुपदगुम्भितां पद्धतिमाश्रयन्तश्च मन्ये नात्यर्वाचीना एते । प्रतिपाद्यबहुमानादपूर्वप्रस्थानपरिकल्पितनाटकगौरवाञ्च न केवलमेते प्रबोधचन्द्रोदयं विवरीतुमुद्यताः स्युः, किन्तु बौद्धादिविविधदुष्टमतान्तरप्रवेशस्य स्वजीवितवेलायामपि मनागिवावशिष्टस्य प्रतिरोधापदेशेनापि व्याख्यानमिदं तेषां कर्तव्यकोटिं स्यात् सम्भवेत् प्राप्तम् । आभिरनेकामिः परिचिन्तनामात्रावलम्बाभिरुपपत्तिभिर्यावत् प्रतिपक्षोपष्टम्भकप्रमाणान्तरानुपलम्भं भवेयुरेते क्रिस्त्वब्दीयषोडशशताब्या अनर्वाचीनाः ।
एतत्सकाशनावलम्बभूताश्च मातृकाः क-ख-ग-घ-ङ-संज्ञिताः पञ्च । ताश्च यथाक्रम
१. वञ्चिराज्यान्तर्गतमणलिक्करमठीयग्रन्थशालीया, २. स्यानन्दूरपुरस्थचित्रकलानिपुणश्रीमत्पद्मनाभन्तम्पिस्वामिका, १. अघोरमनक्कल् अधिपतिब्रह्मश्री वासुदेवनम्पूरिप्पाडुग्रन्थशाला
न्तर्गता, ४. अम्बरनदीनिवासिवेम्बनाहिल्लं नारायणन् नारायणन् इलयतु
सम्बन्धिनी, ५. आलवा चित्तूमनक्कल् कुञ्जन्नम्पूरिप्पाडस्वामिका छ । सर्वाः सोपयोगाः कृतज्ञतानुस्मरणेन तत्तत्स्वामिषु धन्यवादसमुचिताः । आमिः सम्पूर्ण साहायकमाचरन्तीभिर्मातृकाभिः कृतावलम्बस्तेनानेन नाटकाभरणेन प्रबोधचन्द्रोदयस्य प्रतिनवं कमपि प्रकाशमवतारयन्नस्मि धन्यः ॥
अनन्तशबनम् , ३०-३-११२.
के. साम्बशिवशास्त्री.