________________
पठोऽः। क्लेशेषु पञ्चसु गतेषु शमं समीहां
तत्त्वावबोधमभितः पुरुषस्तनोति ॥१॥
तद् भवती त्वरिततरं देवीमुपनिषदमननीय मत्स. काशमानयत्विति । (विलोक्य सहर्षम् ) एषाम्बा सहर्ष किमपि मन्त्रयन्ती इत एवाभिवर्तते।
(ततः प्रविशति श्रद्धा ।) श्रद्धा-अये, अद्य खलु चिरेण राजकुलमवलोक्य पीयूषेणेव लोचने पूर्णे।
असतां निग्रहो यत्र सन्तः पूज्योः शमादयः। आराध्यते जगत्स्वामी वश्यैर्देवानुजीविभिः ॥२॥
वर्तमाने सति । मनसि च प्रशान्ते : क्लेशेष्वविद्यास्मितारागद्वेषाभिनिवेशलक्षणेषु शमं गतेषु । अधुना पुरुषः क्षेत्रज्ञः । तत्त्वावबोधममितः तत्त्वज्ञानस्य साधनमभितः सर्वतो दिशमन्विष्य सम्यगीहां कुर्वन् वर्तत इत्यर्थः ॥ १॥
तद्भवतीति । तस्मात् सानुनयमानेया मन्मानिनीत्यर्थः । यथा रन्ध्रान्वेषी माहोऽस्मान् नाभिभवेत् , तथा यतनीयमित्यर्थः । एवं विवेकनियोगादुपनिषदमानेतुं प्रस्थिता शान्तिर्मार्गमध्ये विवेकानयनाय पुरुषप्रेषितां गच्छन्ती श्रद्धां ददर्शेत्साह -विलोक्येत्यादिना ।
अद्य खल्चिति : राजकुलमित्युपलक्षणम् । सकलप्रपञ्चविलयेन तदधिष्ठानतया गम्यमानमद्वितीयमात्मानमालक्ष्य लोचने श्रुतिस्मृतिलक्षणे नेत्रे कृतार्थे इति । राज्ञः सकाशं गत्वा तमवलोक्य लोचने पूर्णे कृतार्थे मविष्यत इत्यर्थः ।
राजकुललक्षणमाह --- असतामिति । असतां मोहादीनार । वश्यैरप्रमादिमिरिन्द्रयैः । अनुजीविभिः राज्यवर्तिमिः आत्मोपजीविमिः भोत्रादिभिरिन्द्रियैः प्रशान्तैः पूज्यत इत्यर्थः ॥२॥
१. 'ज्या बमा' इति मुक्तिपाठः.