________________
प्रबोधचन्द्रोदये सव्याख्ये
अथ षष्ठोऽङ्कः। (मतः परं जीवन्मुक्तिर्मविष्यति ।)
(ततः प्रविशति शान्तिः।) शान्तिः- आदिष्टास्मि महाराजविवेकेन। यथा वत्से! विदितमेव भवत्या किल
अस्तं गतेषु तनयेषु निलीनमोहे
वैराग्यभाजि मनसि प्रशमं प्रपन्ने । एवं तावत्
"मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धस्य विषयासंगि मुक्तनिर्विषयं मनः ॥" इति न्यायेन विवेकादिसहकृतवैराग्यशालिमनःप्रसादसम्प्राप्योऽसौ पुरुपार्थः इत्यनन्तरातीताकशिरसि निर्दिष्टम् । अधुना तु सम्यग्ज्ञानोदयसमय एव शरीरपात इत्यङ्गीकारे पुरुषार्थप्राप्तिसाधनसम्यग्ज्ञानप्रकाश. कशास्त्राचार्यादीनामभावप्रसङ्गात् , तदनङ्गीकारे च जगदान्ध्यप्रसाद दग्धपटन्यायेन बाधितानुवृत्त्या वा प्रयुक्तशरवज्जीवन्मुक्तिप्रतिपादकशास्त्राणां च भूयसां सम्भवात् तदवष्टम्भेनानुभवानुसारेण च जीवन्मुक्तः कोऽप्यस्तीत्यभिप्रायेण उत्तरप्रघट्टकतात्पर्यमाह - अतः परं जीवन्मुक्तिर्भविष्यतीति।
उक्तं तावत् “मानिन्याश्विरविप्रयोगजनितास्याकुलाया भवेदि". स्वत्र शान्त्याद्यनुनीतोपनिषद्देवीसम्प्रयोगाद् विवेकस्यावस्थात्रयनिर्मुक्ततुरीयब्रह्माकारसम्यग्ज्ञानदिवाकरोऽविद्यातमःपटलघस्मरः समुदयमासादयिष्यतीति । तत्राधुना शान्त्यादेरानुकूल्येन उपनिषत्सङ्गमाद् विद्योत्पत्तिप्रकारं वक्तुमुपक्रमते-ततः प्रविशति शान्तिरित्यादिना ।
___ महाराजविवेकस्यादेशप्रकारमेवानुसन्धत्ते-यथा वत्स इत्यादिना।
अस्तं नाशम् । तनयेषु कामक्रोधादिषु । निलीनमोहे प्रच्छचतया
1. 'सक्तिः मु' घ. पाठः. २. 'तथा' ख. प. पाठः. ३. 'त्पादनस' क. ..... पाठ:. ४. '
द ग्ध'. प. पाठः.