________________
‘पन्चमोऽधः। त्वत्सङ्गाच्छाश्वतोऽपि प्रभवलयजरोपप्लुतो बुद्धिवृत्ति.
वेको नानेव देवो रविरिव जलधेर्वीचिषु व्यस्तमूर्तिः । तूष्णीमालम्बसे चेत् कथमपि वितता वत्स ! संहृत्य वृत्तीर्भात्यादर्श प्रसन्ने रविरिव सहजानन्दसान्द्रस्तदात्मा
[॥ ३३ ॥ तद् भवतु । ज्ञातीनामुदककृत्याय नदीमवतरामः । मनः-यदाज्ञापयति देवी ।
(इति निष्क्रान्ताः सर्वे ।)
इति श्रीकृष्णमिश्रयतिविरचिते प्रबोधचन्द्रोदये
वैराग्यप्रादुर्भावा नाम पञ्चमोऽEः ||
निजरूपप्राप्तिमेव दर्शयति-त्वत्पादित्यादिना । यथैकोऽप्यादित्योऽनेकवीचीतरङ्गघटघटोकूपतटाकनदनदीसरःसमुद्राद्यपाधिगतसलिलसम्बन्धादनेकवद् विभाव्यत, एवं त्वत्सम्बन्धादखण्डैकरसस्वरूपो. ऽपि परमात्मा बुद्धिवृत्त्युपा भेदसम्बन्धाध्यस्तमूर्तिर्विभिन्ननिजरूप इव कल्पितः । त्वं चेत् कथमपि
"उत्सेक उदधेद्वत् कुशाग्रेणैकबिन्दुना ।
मनसो निग्रहस्तद्वद् भवेदपरिखेदतः ॥" इति न्यायाद् बहिरङ्गत्वमपहाय प्रत्ययात्रशरणतयाचञ्चलं वर्तसे चेत् , तईपमपि परमात्मा अशेषानर्थविनिर्मुक्तः परिपूर्णपरमानन्दब्रह्मैव स्यादित्यर्थः।।
इति श्रीमप्रकाशतीर्थभगवत्पूज्यपादशिष्येण गोविन्दामृत
भगवता कृते नाटकाभरणे पञ्चमोऽः ॥
-
१. 'विगतमे, २. 'पाद्विभित्रमूर्तिय॑खनिज'. पाटः,