________________
१७०
प्रबोधचन्द्रोदये सव्याख्ये __ सरस्वती-शमदमसन्तोषादयश्च पुत्रास्त्वामुपचरन्तु। यमनियमादयश्चामात्याः । विवेकोऽपि त्वदनुग्रहादुपनिषद्देव्या सह यौवराज्यमनुभवतु । एताश्च मैत्र्यादयश्चतस्रो भगिन्यो भगवत्या विष्णुभक्त्या तव प्रसादनाय प्रहितास्ताः सप्रसादमनुमानय।
मनः -यदादिशति देवी ! मूर्ध्नि निवेशिताः सर्वा एवाज्ञाः। (इति सहर्ष पादयोः पतति ।) __ सरस्वती- यमनियमादयश्चामात्याः सादरमायुष्मता द्रष्टव्याः । एतैरेव सहायुष्मान साम्राज्यमनुतिष्ठतु । त्वयि च स्वास्थ्यमापन्ने क्षेत्रज्ञोऽपि स्वां प्रकृतिमापत्स्यते । यतः
शमः अन्तःकरणोपशमः । दमो नाम पहिष्करणोपशमः । सन्तोषो नाम सजातालम्प्रत्ययत्वम् । उक्तं च
"यदृच्छालामतो नित्यमलं पुंसो भवेदिति ।
या धीस्तामृषयः प्राहुः सन्तोषं सुखलक्षणम् ॥" आदिशब्देन तपःस्वाध्यायादयो गृह्यन्ते । वैराग्यानन्तरमावित्वात् पुत्राः। शमदमादयस्त्वामुपचरन्तु परिचरन्त्वित्यर्थः । यमादयस्त्वारादुपकारकत्वादमात्यवदमात्याः । मोक्षराज्याभिषेकप्राप्तेः पूर्वरूपत्वाद् विवेक एवं युवराज इत्यर्थः ।।
यमनियमादय इत्यादिशब्देन प्रत्याहारादयो गृपन्ते । एतैरिति । आ मोक्षादवश्यानुष्ठेया एवैत इत्यर्थः । सम्राड्भावः साम्राज्यमपराधीनतयात्मविषय एवावस्थितिः । तव स्वास्थ्यात् लाभान्तरमप्यस्तीत्याह-क्षेत्रज्ञोऽपीति । स्वां प्रकृति निसर्गसिद्धपरमात्मस्वरूपमेव भवतीत्यर्थः ।
१. 'व्यभेदीय'. पाठः.