________________
पञ्चमोऽङ्कः । मनः- (सानन्दम् ) देवि! एवमेतत् , यदाह वत्सः। सम्प्रति हि-- नार्यस्ता नवयौवना मधुकरव्याहारिणस्ते द्रुमाः
प्रोन्मीलन्नवमल्लिकासुरभयो मन्दास्त एवानिलाः । अद्योदात्तविवेकमार्जिततमस्तोमव्यलीकं पुनस्तानेतान् मृगतृष्णिकार्णवपयःप्रायान् मनः पश्यति
[॥ ३२ ॥ सरस्वती - वत्स! यद्यप्येवं, तथापि गृहिणा मुहूर्तमप्यनाश्रमधर्मिणा न भवितव्यम् । तदद्याभूति निवृत्तिरेव ते सहधर्मचारिणी।
मनः- (सलज्जम् ) यदादिशति देवी ।
इति । अतो विवकिनां शोकगन्धस्याप्यवकाशाभावात् कुडुम्बचिन्तापरिहारे णास्मिन् संसारे वान्तौदन इव निवेदेन भाव्यमिति भावः ।। ३१ ।।
सम्प्रति स्वाधीनविवेकादिफलमनुसन्दधाति ... सम्प्रति हीत्यादिना । नार्यस्ता इति । भोगसाधनत्वेन पूर्वमूरीकृता वनितादयः । अद्य इदानीम् । उदात्त उत्कटो विवेकः तेन मार्जितं विशोधितं तमसां स्तोमस्तमस्तोमः पुलं तदेव व्यलीकम् अनृतम् । अथवा व्यलीकमिति तिरोधायक मलमुच्यते । सम्यमार्जितमलं यन्मनस्तदिदम् । तानेतान् विषयानसकल्पान् पश्यतीत्यर्थः ॥ ३२ ॥
सलज मिति । पूर्व प्रवृत्त्यां पक्षपातप्रणयप्रसङ्गेनाज्ञानिना मया अवधीरिता धर्मपल्यपि सेयं निवृत्तिरित्यात्मापराधनिरूपणेन समातलज्जाभरनम्रकन्धर इत्यर्थः ।
१. 'मित्यर्थः' ख. घ. पाठः. २. 'इदानीं स्वा' उ. पाठः. ३. 'यमित्या' स.प. पाठा.