________________
प्रबोधचन्द्रोदये सम्पाख्ने मनः-क्वासि पुत्रक!। वैराग्यम्- (उपसृत्य) अहं भो! अभिवादये।
मनः-वत्स! जातमात्रेण त्वया त्यक्तोऽस्मि । परिष्वजस्व माम्।
वैराग्यम् - (तथा करोति)। मनः- वत्स! त्वदर्शनात् प्रशान्तो मे शोकावेगः । वैराग्यम् - तात! कोऽत्र शोकावकाशः । यतः, पान्थानामिव वर्मनि क्षितिरुहां नद्यामिव स्रोतसां
मेघानामिव पुष्करे जलनिधौ सांयात्रिकाणामिव । संयोगः पितृमातृबन्धुतनयभ्रातृप्रियाणां यदा
सिद्धो दूरवियोग एव विदुषां शोकोदयः कस्तदा ॥ वैराग्यमुत्पन्नमित्यर्थः । तत् तस्मात् । एतद् वैराग्यम् । सम्भावय सम्यग् भावय । अचञ्चलतया दायमेव सम्पादयेत्यर्थः ।।
जातमात्रेणेति । मद्व्यापारासहिष्णुना त्वया परित्यक्तोऽहमित्यर्थः ॥
तात कोऽत्र शोकावकाश इति । अस्थाने महान् सम्भ्रम एवायमित्यर्थः ॥
अस्थानतामेव स्थापयति-यतः पान्थानामित्यादिना । पुष्करे योनि । सांयात्रिकाणी पोतवणिजाम् । दूरवियोग एवेति । अत्यर्थ नि. वितवियोग एव पित्रादिसंयोग इत्यर्थः । तदुक्तम् -
"संयोगा विप्रयोगान्ताः पतनान्ताः समुच्छ्रयाः । भयान्ता निचयाः सर्वे मरणान्तं च जीवितम् ॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥" १. 'वो महायात्रिकाणां पो. पाठा.