________________
पाचमोऽहः ।
१६७ अपिच, सदा लोला लक्ष्मीविषयजरसाः प्रान्तविरसा
विपद्नेहं देहो महदपि धनं भूरि निधनम् । गुरुः शोको लोकाः सततमबलानर्थबहुला
तथाप्यस्मिन् घोरे पथि बत रता नात्मनि रताः ॥३०॥
सरस्वती-वत्स! एतद् वैराग्यं त्वामुपस्थितम् । तदेतत् सम्भावय ।
एवं शरीरनैःसार्य प्रतिपायाधुना भोगसाधनविषयनिस्सारतां दर्शयति - आपिचेति । सदा लोला लक्ष्मीः अतिचञ्चला । न क्षणमप्येकत्र संवसतीत्यर्थः । विषयानुभवाज्जाता रसाः प्रीतिविशेषाः । प्रान्ते अवसाने विरसाः दुःखकराः । भोगसाधनत्वेन सम्मतवनितादिदेहोऽप्यापदां निलयः । धनमपि राज चोरादिमिर्विनाशबहुलम् । ननु तवैकस्यैवैतदिति चेत् तत्राह-गुरुः शोक इति । सप्तस्वपि लोकेषु निरूप्यमाणेषु ब्रह्मादितृणपर्यन्तप्राणिनां शोक एव गुरुभूयानित्यर्थः । अबला योषित् । अनर्थबहुला अनर्थस्वरूपैवेत्यर्थः । तथापीति । एवमनुभूयमाने सत्यप्यनर्थवाते निसर्गसिद्धपरमानन्दप्रत्यगात्मानमक्लेशलभ्यमपि मना न वान्छति । अहो कष्टं वर्तत इत्यर्थः । उक्तं च -
"अध्यात्मादिपदार्थेभ्यो विविक्तं स्वात्मनि स्थितम् । तन्न पश्यत्यहो कष्टं दौर्भाग्यं दुष्टचेतसाम् ॥ प्रत्यक्षगोचरं देवं लोकं चातिप्रमादिनम् । दृष्ट्वा श्रुतिः शिरस्ताडमनुक्रोशति दुःखिता ॥ प्रत्यक्षतममप्येनं वितमस्कं स्वयं स्वतः ।
अहो कष्टं न पश्यन्ति कं यामः शरणं वयम् ॥" इति ॥३०॥
एतद् वैराग्यं त्वामुपस्थितमिति । निरङ्कुशं तव सार्वत्रिक
१. मात्रम', २. 'नई' ख. घ. पाठः. ३. 'सर्वलोकेष्वपि नि' इ. पाठ.. ४. 'महान् न' घ. पाठ: