________________
प्रबोधचन्द्रोदये सम्याख्ये
असारे संसारे विरसपरिणामे तु विदुषां
वियोगो वैराग्यं द्रढयति वितन्वन् शमसुखम् ॥ २८ ॥
(ततः प्रविशति वैराग्यम् ।)
वैराग्यम् – (विचिन्त्य)
अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत
त्वमात्रान्तरितामिषं यदि वपुर्नैतत् प्रजानां पतिः । प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृह्णतो गृध्वावृकांस्तनौ निपततः को वा कथं वारयेत् ॥ २९ ॥
जडधियः अविवेकिनः । विदुषां विवेकिनां तु कलत्रादिपरिग्रहस्य ममत्वेनोपार्जितस्य वियोग: विश्लेषः कालत्रयेऽपि दुःखनिदानमेवैतदिति निरूपणेन दृढतरविरक्तिद्वारा शमसुखं सम्पादयतीत्यर्थः ॥ २८ ॥
5
यस्मादेवं विवेकिनां वैतृष्ण्यमेव सर्वस्मात्, अतो विवेकसामग्र्यां सत्यां स्वयमेव वैराग्यं भवतीत्याह - ततः प्रविशति वैराग्यमिति । वैराग्यं निर्वेदः । उक्तं च
“असिद्धे क्वचिदाविष्टे सर्वस्मादपि वस्तुनः । व्यावृत्तिर्दोषदर्शित्वाद् बुद्धेर्निर्वेद उच्यते ।। "
इति ।
वैराग्यस्वरूपं दर्शयति – विचिन्त्येत्यादिना । त्वगिन्द्रियतिरोहितं पथा भवति तथा यदि नास्राक्षीत् न सृष्टवानित्यन्वयः । तर्हि क्षुत्क्षमतान्तस्वान्ता ध्वांक्षादयो जक्षन्त्येवेत्यर्थः । अतः, “मांसास्थिपूयविण्मूत्रमज्जासृ कस्नायुसंहतौ ।
देहे चेत् प्रीतिमाप्नोति भविता नरकेऽपि तत् ॥” इति न्यायादशेषनरकवदतिकश्मल एवायं देह इत्यभिप्रायः ।। २९ ।।
१. 'मित्यादिना । वै' ख. ग. पाठः . 1 २. 'षशीलत्वात् ' ख. घ. पाठः. 'तदेव द' क. क. पाठः. ४. 'क्षान्त' ङ. पाठः.
३.