SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७४ शान्तिः तासि । श्रद्धा- ( अये अद्येत्यादि पठति । ) शान्तिः - अथ मनसि कीदृशी स्वामिनः पुरुषस्य प्र. वृत्तिः । C प्रयोषचन्द्रोदये सम्यामे ( उपसृत्य ) अम्ब! किं मन्त्रयन्ती के प्रस्थि श्रद्धा याहशी वध्यस्य निग्राह्यस्य च भवति । शान्तिः - तत् किं स्वाम्येव साम्राज्यमलङ्करिष्यति । AND Common श्रद्धा स्वराट् सम्राड् वा भवति । एवमेतत्, यद्यात्मानं प्रतिसंधत्ते । ततो देवा किं मन्त्रयन्तीति । प्रश्नस्योत्तरमाह – अये अद्येत्यादि पठतीति । पुरुषाज्ञया विवेकमालोकयितुं गमिष्यत इत्यर्थः । ततः प्रविशति शान्तिरिति । अथवा बहुलविषयेषु सात्त्विकेषु च विषयेष्वित्येवं परापररूपवैराग्यं परिपूर्णमित्युक्तम् । अधुना सत्त्वोन्मेषरूपसमाधिसुखादीनामपि परमानन्दप्राप्तिपरिपन्थित्वेन तेष्वपि विरक्तत्वात् स्वयमेव सर्वव्यापारोपशमरूपा शान्तिः प्रवर्तत इत्याह -- ततः प्रविशति शान्तिरिति । अथेत्यादि पठतीति । अयं भावः --- सम्प्रति निखिलनिगमप्रामाण्यं निर्मितमतोऽहमपि चरितार्थेति । ननु यद्येवं प्रामाण्यं प्रतिष्ठितं, तर्हि पुरुषव्यापारः साकल्येन सुसंवेद्य इति पृच्छति – अथेति ॥ - वध्यस्य वधाईस्य : निग्रायस्य निगलबन्धयोग्यस्य । तादृक कृतमित्यर्थः ॥ यथात्मानं प्रतिसन्धत्ते इति । प्रत्यक्प्रवणताप्रणयपरवशश्चेत्, तर्हि अयं स्वराद् । यस्यान्यो राजा नास्ति, स्वयमेव च राजा यः, स स्वराडित्यर्थः । परिपूर्णाखण्डब्रह्मरूपेणात्मद्युतिसन्दोहैः सर्वतो देदीप्यमानः सम्राडित्यर्थः । वाशब्दस्त्ववधारणे ।
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy