________________
मनः किन्तु,
तव मुखशशधरदीधितिगलितैर्विमलोपदेशपीयूषैः ।
क्षालितमपि मे हृदयं
मलिनं शोकार्मिभिः क्रियते ॥ २४ ॥ तदास्य शोकप्रहारस्य भेषजं प्रज्ञापयतु भगवती । सरस्वती - वत्स ! ननूपदिष्टमेव मुनिभिः । अकाण्डपातजातानामार्द्राणां मर्मभेदिनाम् । गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥ २५ ॥
इति ।
पञ्चमोऽङ्कः ।
१६३
भगवति ! तव प्रसादादपास्त एव व्यामोहः |
" मातापितृसहस्राणि पुत्रदारशतानि च । "
( " जायमानो हरेद् भार्यां वर्धमानो हरेद् धनम् । म्रियमाणो हरेत् प्राणान् नास्ति पुत्रसमो रिपुः || ”
इत्यादिवचनात् । १) गतागतं कुर्वतां मात्रादीनां यस्मादियत्ता नास्ति, तत् तस्मादिह विद्युत्पातोज्ज्वलान् चञ्चलसौदामनीद्युतिवद् दृष्टनष्टस्वरूपान् सुहृत्सम्बन्धान् हृदि निवेश्य भूयो भूयो भावयित्वा सुखी भवेत्यर्थः ॥ २३ ॥
इत्यादिशास्त्रेण,
तब प्रसादसलिलसन्दोहैः प्रक्षालितमप्यन्तःकरणमात्मापराधात् कलुषितमिव भातीत्यर्थः ॥ २४ ॥
आर्द्रस्य अभिनवस्य । निरर्गलं प्रवर्तमानस्य परवशदुःखत्रातस्ये
त्यर्थः ॥
अकाण्डेति । अचिन्तितोपस्थितानाम् । आर्द्राणां बहलानाम् । मर्ममेदिनां मर्मच्छिदाम् । गाढशोकप्रहाराणां गाढं दृढं शोकलक्षणप्रहाराणाम् । अचिन्ता अननुस्मरणमेव । भैषज्यमित्यर्थः ॥ २५ ॥
१.
'वा' क. पाठ.. २. 'स्वा निर्वृतो भ', ३. 'भेषजमि' क. ङ. पाठः,
W2