________________
१६४
प्रबोधचन्द्रोदये सव्याख्ये
मनः - भगवति ! एवमेतत् । दुर्वारं तु चेतः । यतः - अप्येतद् वारितं चिन्तासन्तानैरभिभूयते । मुहुर्वाताहतैर्बिम्बमभ्रच्छेदैरिवैन्दवम् ॥ २६ ॥
सरस्वती कचिच्छान्ते विषये चेतो निवेश्यताम् ।
मनः- तत् प्रसीदतु भगवती । कोऽसौ शान्तो विषयः । सरस्वती वत्स ! गुह्यमेतत् । तथाप्यार्तानामुपदेशे
1
न दोषः ।
-
वत्स ! श्रूयतां चेतसोऽयं विकारः । ततः
नित्यं स्मरन् जलदनीलमुदारहारकेयूरकुण्डलकिरीटधरं हरिं वा ।
ग्रीष्मे सुशीतमिव वारि निरस्तशोकं
ब्रह्म प्रपद्य भज निर्वृतिमात्मनीनाम् ॥ २७ ॥ एवमेतदिति ।
बाह्यपरिग्रहनिमित्तदुःखस्य एवं साध्यत्वं भवतु । किन्तु चित्तस्य नियमनं न शक्यत इत्याह- अप्येतद्वारितामित्यादिना । वस्तुतत्त्वविचारादिना वारितं निरुद्धमपि कुटुम्बचिन्तादिरेव प्रगल्भत इत्यर्थः ॥ २६ ॥ कचिच्छान्ते विषय इति । सर्वसंसारधर्मविनिर्मुक्ते शान्ते वस्तुन्येकाग्रतासम्पादनमन्तःकरणविक्षेपं निरुणद्धीत्यर्थः ॥
एवं प्रत्यक्प्रावण्यलक्षणाधिकारमापाद्योपदेष्टुमुपक्रमते प्यार्तानामित्यादिना । धनिनां बुद्धिमतां गुरुशुश्रूषणपराणामार्तानां चार्थित्वसामर्थ्यविद्वत्ताशालिनामत्राधिकारादुपदेशो युज्यत इत्यर्थः ।
तत्र प्रथमं तावदधिकारितारतम्यापेक्षया सगुणं वस्तूपास्यत्वेन दर्शयती - नित्यभिति । नित्यं निरन्तरम् । स्मरन् चिन्तयन् । उत्कृष्ट - हाराद्याभरणालङ्कृतं हरिम् । वाशब्दात् सर्वाभरणसुन्दरमेद्रिजापतिं वेत्यर्थः । एवं सगुणब्रह्मोपासनापरिपक्वकषायस्य क्रमप्राप्तं निर्गुणत्रयोपासनं
१.
'मगजा' घ. पाठः,
C
तथा