________________
१६२
प्रबोषचन्द्रोदये सन्याख्ये मोहः क एष जगतो यदपत्यसंज्ञां
तेषां विधाय परितोषयति स्वदेहम् ॥ २१ ॥ मन:-- भगवति ! एवम् । तथापि दुरुच्छेद्यस्तु ममत्वप्रन्थिः । तथाहिनिरन्तराभ्यासदृढीकृतस्य
न स्नेहसूत्रग्रथितस्य जन्तोः । जानामि किञ्चिद् भगवत्युपायं
ममत्वषाशस्य यतो विमोक्षः ॥ २२ ॥ सरस्वती- वत्स! भावानामनित्यताभावनमेव तावममत्वोच्छेदस्य प्रथमोपायः। तथापि, कति न पितरो दाराः पुत्राः पितृव्यपितामहा
महति वितते संसारेऽस्मिन् गतास्तव कोटयः । तदिह सुहृदां विद्युत्पातोज्ज्वलान् क्षणसङ्गमान्
सपदि हृदये भूयो भूयो निवेश्य सुखो भव ॥ २३ ॥
ममत्वोच्छेदोपायं दर्शयति - पश्य प्रादुर्भवम्तीत्यादिना । कृमिसुतयोः स्वकीयमलजन्यत्वाविशेषादन्यतरात्मीयाभिमाने किमपि कारणं नास्तीत्यर्थः । उक्तं च -
"स्वदेहजानस्वसंज्ञान् यद् दुःखान क्रिमींस्त्यजेत् ।
स्वसंज्ञानस्वजांस्तद्वत् सुतसंज्ञान क्रिमींस्त्यजेत् ॥" इति ॥२१॥
ग्रन्थिा पन्धः । अनादिसंसारहढीकृतत्वात् ।
उपायान्तरमाह - भावानामनित्यतेत्यादिना । प्रथमोपायः प्रधानं साधनम् ।
कति न पितर इति । विस्तृतेऽस्मिन् संसारे