________________
पञ्चमोऽहः।
१५१ अपिच, तीर्णाः पूर्णाः कति न सरितो लविताः के न शैला
नाकान्ता वा कति वनभुवः करसञ्चारघोराः। पापैरेतैः किमिव दुरितं कारितो नासि कष्टं
यद् दृष्टास्ते धनमदमषीम्लानवक्त्रा दुरीशाः॥१८॥ मनः - देवि ! एवमेतत् । तथापि -
लालितानां स्वजातानां हृदि सञ्चरतां चिरम् ।। प्राणानामिव विच्छेदो मर्मच्छेदादरुन्तुदः ॥ १९ ॥ सरस्वती-वत्स! ममतावासनानिबन्धनोऽयं व्यामोहः। उक्तं च
मार्जारभक्षिते दुःखं यादृशं गृहकुक्कुटे । न ताङ् ममताशून्ये कलविङ्केऽथ मूषके ॥ २० ॥
तत् सर्वथा सर्वानर्थबीजस्य ममत्वस्योच्छेदे यत्नः कर्तव्यः। पश्य ,
प्रादुर्भवन्ति वपुषः कति वा न कीटा
. यान् यत्नतः खलु तनोरपसारयन्ति । पापैरेतैरिति । कलत्रादिपरिग्रहैरेतैरात्मपोषणार्थं गच्छेति प्रहितः परेषांमात्मनि धनित्वसम्भावनासमुपजनितदुर्मदमपीकलुषितकटाक्षाणां दुप्रौढानामग्रे निर्लज्जं निजगुणनिवहं निवेद्यातिगर्वोच्छूनं तन्मुखबिम्बमेवानिमेषनिरक्षिणेन निविष्ट इति यत् , तस्मादेतैरकारितं नास्तीत्यर्थः ॥१८॥
ममतावासनेति । सम्बन्धाध्याससंस्काराधीन इत्यर्थः ॥ कलविङ्कः चटकः ॥ २० ॥ १. 'षां ध' क, ग. पाठः.