________________
प्रबोषचन्द्रोदये सव्याश्ये मनः-देवि! यद्यप्येवं, तथापि न शक्रोमि शोकानलदग्धः प्राणान् धारयितुम् । साधु सम्पन्नं, यदन्तकाले त्वं तावद् दृष्टासि।
सरस्वती-इदं चापरमकुत्यं यदात्महत्याध्यवसाय इति । भपिच, अमीषामपकारिणामर्थे कोऽयमत्यावेशो भवतः । पश्य तावत्कचिदुपकृतिः *कर्तामाभिः कृता कियतेऽथवा
तव न च भवन्त्येते पुंसां मुखाय परिग्रहाः। दधति विरहे मर्मच्छेदं तदर्थमपार्थक
तदपि विपुलायासैः सीदन्त्यहो बत जन्तवः॥१०॥ साधु सम्पन्नमिति । त्वत्संम्प्रयोगान्मम महान् प्रसादः सखात
इत्यर्थः
व तावद् भिक्षुकपादप्रसारणन्यायेनामिमुख्यमापायेदानी फलामावादनुपकारित्वाच्चैतेषामर्थे नाभिनिवेष्टव्यम् इति बोधयितुमाह-अपि चेत्यादिना।
उपकाराभावमेव दर्शयति-पश्य तावदित्यादिना । अमीमिः कउत्रादिपरिग्रहैः । उपकृतिः उपकारः । *कर्ता न चेत्यन्वयः । भविष्य काले तावत्सरिग्रहैः उपकारो न भविष्यतीत्यर्थः । भूतकालेऽपि निरूप्यमाणे केश एव परं नोपकृतिरित्याह-कृता न चेति । इदानीमुपकाराभावः स्पष्ट एवेत्याह-क्रियत इति । एवं कालत्रयेऽपि सुखाय न भवन्तीत्येतावदेव न, दुःखहेतुत्वं च दृश्यत इत्याह-दधति विरह इत्यादिना । एवमनर्थहेतुत्वं स्पष्टम् । तथापि तदर्थं परिग्रहपोषणाय श्रवृत्तिवाणिज्यादिविपुलायासैः सीदन्ति जनाः । अहो कष्टं वर्तत इत्यर्थः ॥ १७ ॥
१. 'स्वत्प्रसादान्म' क. पाठः. २. 'संबन्धप्रयो' ग. घ. पाठः. १. 'तिनीचपनवा' क. पाठः,
•ा कर्मणि बड्।