________________
सरस्वती-वत्स ! स्नेहदोष एषः। प्रसिद्ध एवायमर्थः स्नेहः सर्वानर्थप्रमव इति । तथाहिउप्यन्ते विषवल्लिबीजविषमाः क्लेशाः प्रियाल्या नरै.
स्तेभ्यः स्नेहमया भवन्ति नचिराहज्राग्निगर्भाडराः । येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनैदेहं दीपशिखासहस्रशिखरा रोहन्ति शोकदुमाः ॥१५॥
उप्यन्ते निर्वाप्यन्ते । सुतादिविषयस्नेहनिमित्ता प्रीतिरित्याख्या येषां पीजानां ते क्लेशकरत्वात् क्लेशाः बुद्धिगुहाक्षेत्रे संरोप्यन्त इत्यर्थः । विषवल्ल्यः शृग्यादिविषलतिकास्तासां बीजानीव दुःसहाः। (तेभ्यः)
"पुंसः पूर्वापराभूता सुखित्वेन व्यवस्थितिः ।
बुद्धेरुन्मीलनी गाढं प्रीतित्वेन निगद्यते ॥" इत्येवंविधप्रीतिलक्षणक्लेशेभ्यः । स्नेहो हार्दम् । उक्तं च -
"वस्तुसिद्धं प्रति प्राहुरुभूतां कारणैः स्वकैः ।
सुखावहां च तत्सिद्धौ स्नेहाख्यामात्मावक्रियाम् ॥" इति । तन्मयाः तत्स्वरूपाः । वज्रानिरशनिदहनः । वज्रामिगी अहरा येषां ते तथोक्ताः । स्मृष्टिमात्रेण नाशका इत्यर्थः । कुकूलहुतभुग्दाहं कु. कूलहुतभुक् तुषामिः । तद्वदान्तरमेव कुटुम्बपोषणसामग्रीसम्पादनचिन्ता. व्यसनरूपेशोकदहनस्तुषपावकवद्देहेन्द्रियसङ्घातं दहन् रोहतीत्यर्थः । उकं च
"यावतः कुरुते जनः सम्बन्धान् मनसः प्रियान् ।
तावन्तोऽस्य निखन्यन्ते हृदये शोकशतवः ॥" इति । अनवसानशोककान्तारं प्रविष्टोऽशरणं स्वात्मानं भूरि शोचयतीत्यर्थः ॥ १६ ॥
५. 'का किम्पाकफलबत् दुःसहा', २, 'दि' ग पाह:. ३. 'प्रीतिमाह'. पा. ४. '' स. पार:. ५. 'पोऽनिः पुटपाक' ५. पाठः. १. 'ति न्यायात् अ' ख. पाठः. ५. 'र: प्रतायत इत्यर्थः' क. पाठः
-
-