________________
१५८
प्रबोधचन्द्रोदये सव्याल्ये भूत्वा कल्पशतायुषोऽम्बुजभुवः सेन्द्राश्च देवासुरा
मन्वाद्या मुनयो मही जलधयो नष्टाः परं कोटयः। मोहः कोऽयमहो महानुदयते लोकस्य शोकावहः सिन्धोः फेनसमे गते वपुषि यत् पश्चात्मके पञ्चताम् ॥१४॥
तद् भावय भावानामनित्यताम् । नित्यानित्यवस्तुदर्शिनं न स्पृशति शोकावेगः । यतः
एकमेव सदा ब्रह्म सत्यमन्यद् विकल्पितम् ।
को मोहः कस्तदा शोक ऐकात्म्यमनुपश्यतः॥१५॥ मनः-भगवति! शोकावेगदषिते मनसि विवेक एव मे नावकाशं लभते ।
"यावत् स्वस्थमिदं शरीरमरुजं यावच दूरे जरा
यावचेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्लो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥" इत्येवमादीनि संसारासारताप्रतिपादकानीत्यर्थः ।
"ब्रह्मादीनां शरीराणि श्वरकरशरीरवत् ।
यतो जिहासितान्येव" इति न्यायाच्चिरकालावस्थायित्वेन सम्प्रतिपन्नानामपि चतुर्मुखादीनां विद्यते क्षयः, अन्यत्र का कथेति कथयितुं तेषां नाशं दर्शयति-तथाहि भूत्वेत्यादिना । अम्बुजभुवो ब्रह्माणः । असुरा विरोचनप्रभृतयः । पञ्चात्मक पञ्चभूतारब्धे । वपुषि शरीरे । पञ्चतामन्त्यावस्थाम् ॥ १४ ॥
तत् तस्माद् । भावय चिन्तय । भावानां पदार्थानाम् ।
सच्चिदानन्दायप्रत्यग्रूपपरिपूर्णब्रह्मवस्त्वेव सत्यम् अबाध्यम् । इतरत् सर्व स्वमप्रपञ्चरज्जुसर्पमृगतृष्णिकादिवत् कल्पितं बाध्यमसारमित्यवगच्छतः शोकादीनां न काप्यवकाश इत्यर्थः ॥ १५॥
१. 'रानित्यता' क. पाठः. २. 'कस्था' क. ग. पा. १. 'यपरि' .. पा.